शांतिपर्व
अध्यायः ११४
युधिष्ठिर उवाच।
विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत।
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम्।।
भीष्म उवाच।
श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते।
सदा सचेताः सहते नरस्येहाल्पचेतसः।।
आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति।
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति।।
गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम्।
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते।।
इति संश्लाघते नित्यं तेन पापेन कर्मणा।
इदमुक्तो मया कश्चित्सर्वतो जनसंसदि।
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते।।
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः।
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः।।
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा।।
प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति।
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम्।।
यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा।
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः।।
निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव।।
यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किंचन।
वाचं तेन न संदध्याच्छुचिः संश्लिष्टकर्मणा।।
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः।
स मानवः श्ववल्लोके नष्टलोकपरायणः।।
तादृग्दिनशतं चापि यद्ददाति जुहोति च।
परोक्षेणापवादेन तं नाशयति तत्क्षणात्।।
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्।
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा।।
परिवादं ब्रुवाणो हि दुरात्मा वै महाजने।
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम्।।
तं स्वकर्मणि कुर्वाणं प्रतिकर्तुं य इच्छति।
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति।।
मनुष्यसालावृकमप्रशान्तं
जनापवादे सततं निविष्टम्।
मातङ्गमुन्मत्तमिवोन्नदन्तं
त्यजेत तं श्वानमिवातिरौद्रम्।।
अनार्यजुष्टे पथि वर्तमानं
दमादपेतं विनयाच्च पापम्।
अरिव्रतं नित्यमभूतिकामं
धिगस्तु तं पापमतिं मनुष्यम्।।
प्रत्युच्यमानस्त्वथ भूय एव
निशाम्य माभूस्त्वमथार्तरूपः।
उच्चस्य नीचेन हि संप्रयोगं
विगर्हयन्ति स्थिरबुद्धयो ये।।
क्रुद्धो दशेद्वाऽपि च ताडयेद्वा
स पांसुभिर्वा विकिरेत्तुषैर्वा।
विवृत्य दन्तांश्च विभीषयेद्वा
सिद्धं हि मूढे कुपिते नृशंसे।।
विगर्हणां नाऽपि दुरात्मना कृतां
सहेत यः संसदि दुर्जनानाम्।
पठेदिदं चापि निदर्शनं सदा
न वाङ्भयं स लभति किंचिदप्रियम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः।। 114।।