शांतिपर्व

अध्यायः ११३

Santi Parva (Sanskrit) · Adhyaya 113
अक्षर का आकार

युधिष्ठिर उवाच।

राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ।
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः।। 12-113-1

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सरितां चैव संवादं सागरस्य च भारत।। 12-113-2
सुरारिनिलयः शश्वत्सागरः सरितां पतिः।
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः।। 12-113-3

सागर उवाच।

समूलशाखान्पश्यामि निहतान्क्वापि नो द्रुमान्।
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसान्।। 12-113-4
अ-पकायश्चाल्पसारो वेतसः कूलजश्च यः।
अज्ञया वा नानीतः किं च वा तेन वः कृतम्।। 12-113-5
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्।
यथा चेमानि कूलानि हित्वा नायाति वेतसः।। 12-113-6
तत्र प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत्।
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम्।। 12-113-7
गङ्गोवाच।
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः।
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यान्न वेतसः।। 12-113-8
वेतसो वेगमायान्तं दृष्ट्वा नमति नापरे।
स च वेगे ह्यतिक्रान्ते स्थानमापद्यते पुनः।। 12-113-9
कालज्ञः समयज्ञश्च सदावश्यश्च नो द्रुमः।
अनुलोमवृत्तितस्तब्धस्तेन त्वां नैति वेतसः।। 12-113-10
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्।। 12-113-11

भीष्म उवाच।

यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने।
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति।। 12-113-12
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः।
जानन्विचरति प्राज्ञो न स याति पराभवम्।। 12-113-13
एवमेव यदा विद्वान्मन्यते विपुलं बलम्।
संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम्।। 12-113-14
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः।। 113।।