शांतिपर्व
अध्यायः १०
भीम उवाच।
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी।।
आलस्ये कृतचित्तस्य राजधर्मानसूयतः।
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ।।
क्षमाऽनुकम्पा कारुण्यमानृशंस्यं न विद्यते।
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे।।
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्।
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन।।
भैक्षमेवाचरिष्याम शरीरस्याविमोक्षणात्।
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्।।
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्।।
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः।
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः।।
ते सदोषा हताऽस्माभिरन्नस्य परिपन्थिनः।
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम्।।
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्।
पङ्कदिग्धो निवर्तेत् कर्मेदं नस्तथोपमम्।।
यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु।
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम्।।
यथा महान्तमध्वानमाशया पुरुषः पतन्।
स निराशो निवर्तेत कर्मैतन्नस्तथोपमम्।।
यथा शत्रून्घातयित्वा पुरुषः कुरुनन्दन।
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथोपमम्।।
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद्यदृच्छया।
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथोपमम्।।
वयमेवात्र गर्ह्या हि यद्वयं मन्दचेतसम्।
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत।।
वयं हि बाहुबलिनः कृतविद्या मनस्विनः।
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा।।
अगतीकगतीनस्मान्नष्टार्थनर्थसिद्धये।
कथं वै नानुपश्येयुर्जनाः पश्यत यादृशम्।।
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते।
जरयाऽभिपरीतेन शत्रुभिर्व्यंसितेन वा।।
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते।
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः।।
कथं तस्मात्समुत्पन्नास्तन्निष्ठास्तदुपाश्रयाः।
तदेव निन्दां भाषेयुर्धाता तत्र न गर्ह्यते।।
श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम्।
वेदवादस्य विज्ञानं सत्याभासमिवानृत्।।
शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना।
धर्मच्छझ समास्थाय च्यवितुं न तु जीवितुम्।
शक्यं पुनररण्येषु सुखमेकेन जीवितुम्।
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन्।।
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः।
अथान्येन प्रकारेण पुण्यमाहुर्न ते जनाः।।
यदि संन्यासतः सिद्धिं राजा कश्चिदवाप्नुयात्।
पर्वताश्च दुमाश्चैव क्षिप्तं सिद्धिमवाप्नुयुः।।
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः।
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः।।
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्र्नुते।
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः।।
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः।
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते।।
अवेक्षस्व यथा स्वैः कर्मभिर्व्यापृतं जगत्।
तस्मात्कर्मैव कर्तव्यं न्प्रस्ति सिद्धिरकर्मणः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि दशमोऽध्यायः।। 10।।