शांतिपर्व

अध्यायः १०९

Santi Parva (Sanskrit) · Adhyaya 109
अक्षर का आकार

युधिष्ठिर उवाच।

कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत।
तत्त्वं जिज्ञासमानाय प्रब्रूहि भरतर्षभ।।

सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः।
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः।।

किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम्।
कस्मिन्काले वदेत्सत्यं कस्मिन्वाऽप्यनृतं वदेत्।।

भीष्म उवाच।

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्।
यत्तु लोके सुदुर्ज्ञेयं तत्ते वक्ष्यामि भारत।।

भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्।
यत्रानृतं भवेत्सत्यं सत्यं वाऽप्यनृतं भवेत्।।

तादृशो वर्धते पापो यत्र सत्यमनिश्चितम्।
सत्यानृते विनिश्चित्य ततो भवति धर्मवि।।

अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव।।

किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्।
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः।।

तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्विदः।
दुष्कारं चापि संख्यातुं तर्केणात्र व्यवस्यति।।

प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्।
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः।।

`अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः।
अनसूयाऽप्यसामर्थ्यमनीर्ष्या शीलमेव च।।

एष धर्मः कुरुश्रेष्ठ कथितं परमेष्ठिना।
ब्रह्मणा देवदेवेन अयं चैव सनातनः।।

अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति।
श्रौतो वधात्मको धर्म अहिंसापरमार्थिकः।।'

धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चः।।

अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम्।
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः।।

श्रुतिं धर्मं वदन्त्यन्ये मानान्याहुः परे जनाः।
न च तं स्वभ्यसूयामो न हि सर्वं विधीयते।।

येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्।
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः।।

अकूजनेन चेन्मोक्षो नावकूजेत्कथंचन।
अवश्यं कूजितव्यं वा शङ्केरन्वाऽप्यकूजनात्।।

`येऽन्ये वाऽप्यनृतं कुर्युः कुर्यादेव विचारणम्।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्।।

अक्षयाद्यो वधं राजन्कुर्यादेवाविचारयन्।
अबुध्वाऽनुशये दोषं श्रेयस्तच्चानृतं भवेत्।।

न स्तेनः सह संबन्धान्मुच्यते शपथादपि।'
श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा।।

यः पापैः सह संबन्धान्मुच्यते शपथादपि।
न च तेभ्यो धनं दद्याच्छक्ये सति कथंचन।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्।।

स्वशरीरोपरोधेन धनमादातुमिच्छतः।
सत्यसंप्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित्।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः।।

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्।
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्।।

परेषां सिद्धिमाकाङ्क्षन्न च स्याद्धर्मभिक्षुकः।
प्रतिश्रुत्य न दातव्यं श्वः कार्यस्तु बलात्कृतः।।

यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मजीवनः।
दण्डेनैव स हन्तव्यस्तं पन्थानं समाश्रितः।।

च्युतः सदैव धर्मेभ्यो धनवान्धर्ममाश्रितः।
कथं स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्।।

सर्वोपायैर्नियन्तव्यः पापो निकृतिजीवनः।
धनमित्येव पापानां सर्वेषामिह निश्चयः।।

अविवाह्या ह्यसंभोज्या निकृत्या निरयं गताः।
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते।
[निर्यज्ञास्तपसा हीना मा स्म तैः सह संगमः।।]

धनादानाद्दुःखतरं जीविता धिक्प्रयोजनम्।
इदं ते रोचतां धर्म इति वाच्यं प्रयत्नतः।।

न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः।
तथाविधं च यो हन्यान्न स पापेन लिप्यते।।

स्वकर्मणा हतं हन्ति हत एव स हन्यते।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु।।

यथा काकास्तथैव श्वा तथैवोपधिजीवनः।
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु।।

यस्मिन्यथा वर्तति यो मनुष्य
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया बाधितव्यः
साध्वाचारः साधुनैवाभ्युपेयः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि नवाधिकशततमोऽध्यायः।। 109।।