शांतिपर्व

अध्यायः १०८

Santi Parva (Sanskrit) · Adhyaya 108
अक्षर का आकार

युधिष्ठिर उवाच

महानयं धर्मपथो बहुशाखश्च भारत।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्।। 12-108-1a
किं कार्यं सर्वभूतानां गरीयो भवतो मतम्।
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम्।। 12-108-2a

भीष्म उवाच।

मातापित्रोर्गुरूणां च पूजा बहुमता मम।
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते।। 12-108-3a
यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः।
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर।। 12-108-4a
न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत्।
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः।। 12-108-5a
एत एव त्रयो लोका एत एवाश्रमास्त्रयः।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः।। 12-108-6a
पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः।
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी।। 12-108-7a
त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकानपि जेष्यसि।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्।। 12-108-8a
ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि।
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत।। 12-108-9a
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्।
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः।। 12-108-10a
नित्यं परिचरेश्चैव तद्वै सुकृतमुत्तमम्।
कीर्ति पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप।। 12-108-11a
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः।। 12-108-12a
न चायं न परो लोको न यशस्तस्य भारत।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः।। 12-108-13a
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते।
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम्।। 12-108-14a
तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम्।
तदासीन्मे शतगुणं सहस्रगुणमेव च।
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर।। 12-108-15a
दशैव तु सदाऽऽचार्यः श्रोत्रियानधितिष्ठति।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश।। 12-108-16a
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि।
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः।। 12-108-17a
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः।
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः।। 12-108-18a
शरीरमेतौ सृजतः पिता माता च भारत।
आचार्यशिष्टा या जातिः सासम्यगजरामरा।। 12-108-19a
अवध्या हि सदा माता पिता चाप्युपचारिणौ।। 12-108-20a
न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम्।
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः।। 12-108-21a
य आवृणोत्यवितथेन कर्मणा
ऋतं ब्रुवन्नमृतं संप्रयच्छन्।
तं मन्येथाः पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन्।। 12-108-22a
स्तथैव तेषां गुरवोऽभ्यर्चनीयाः।। 12-108-23f
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः।
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता।। 12-108-24a
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः।
प्रीणाति जननीयेन पृथिवी तेन पूजिता।। 12-108-25a
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम्।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः।। 12-108-26a
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः।। 12-108-27a
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्।
न च माता न च पितो तादृशो यादृशो गुरुः।। 12-108-28a
न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम्।
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः।। 12-108-29a
उपाध्यायं पितरं मातरं च
ये विद्रुह्यन्ते मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं
तस्मान्नान्यः पापकृदस्ति लोके।। 12-108-30a
भृतो भर्तारं यो न विभिर्ति पुत्रः
स्वयोनिजः पितरं मातरं च।
तस्य पापं भ्रूणहत्याविषिष्टं
तस्मान्नान्यः पापकृदस्ति लोके।। 12-108-31a
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च।
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम्।। 12-108-32a
एतत्सर्वं मनुनिर्देशदृष्टं
यत्कर्तव्यं पुरुषेणेह किंचित्।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं
सर्वान्धर्माननुसृत्यैतदुक्तम्।। 12-108-33a
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टाधिकशततमोऽध्यायः।। 108।।