शांतिपर्व
अध्यायः ११०
युधिष्ठिर उवाच।
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक्।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते।।
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते।।
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते।।
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते।।
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः।
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते।।
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते।।
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः।
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते।।
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते।।
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम्।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते।।
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते।।
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः।
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते।
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते।
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते।।
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः।
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते।।
ये च संशान्तरजसः संशान्ततमसश्च ये।
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते।।
येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित्।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते।।
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः।
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते।।
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते।।
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते।।
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते।।
ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च।
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते।।
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते।।
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्।
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते।।
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते।।
य एष पझरक्ताक्षः पीतवासा महाभुजः।
सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत।।
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्।
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः।।
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः।
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः।।
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्।
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा।।
` अस्मिन्नर्पितकर्माणः सर्वभावेन भारत।
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते।
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम्।
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते।।
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम्।
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते।।
यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः।
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम्।
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते।।'
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च।
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते।।
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ।
तरते येन दुर्गाणि परत्रेह च मानवः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि दशाधिकशततमोऽध्यायः।। 110।।