शांतिपर्व
अध्यायः १०७
युधिष्ठिर उवाच।
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप।
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च।।
राज्ञां वृत्तं च कोशं च कोशसंचयनं जयः।
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्।।
षाङ्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च।
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्।।
समहीनाधिकानां च यथावल्लक्षणं च यत्।
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता।।
क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम्।
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत।।
विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते।
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर।।
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च।।
भेदमूलो विनाशो हि गणानामुपलक्षये।
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः।।
एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप।
यथा च ते न भिद्येरंस्तच्च मे वद भारत।।
भीष्म उवाच।
गणानां च कुलानां च राज्ञां भरतसत्तम।
वैरसंदीपनावेतौ लोभामर्षौ नराधिप।।
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्।
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ।।
चारमन्त्रबलादानैः सामदानविभेदनैः।
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम्।।
तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः।
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्।।
भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः।
तस्मात्संघातयोगेन प्रयतेरन्गणाः सदा।।
अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः।
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु।।
ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्।
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः।।
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः।
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः।।
पुत्रान्भ्रातृन्निगृह्णन्तो विनयन्तश्च तान्सदा।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः।।
चारमन्त्रविधानेषु कोशसंनिचयेषु च।
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः।।
प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान्।
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप।।
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः।
कृच्छ्रास्वापत्सु संमूढान्गणाः संतारयन्ति ते।।
क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः।
नयत्यरिवशं सद्यो गणान्भरतसत्तम।।
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव।।
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शण।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत।।
गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः।।
पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा।
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व।।
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्।
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः।।
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः।
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम्।।
आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम्।
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति।।
अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात्।
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्।।
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ।
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः।।
भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः।
तस्मात्संघातमेवाहुर्गणानां शरणं महत्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्ताधिकसततमोऽध्यायः।। 107।।