शांतिपर्व
अध्यायः १०६
राजोवाच।
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्।
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्।।
पुरस्तादेव भगवन्मयैतदपवर्जितम्।
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत्।।
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः।
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते।।
मुनिरुवाच।
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे।
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः।।
उभयोरेव साह्यार्थे यतिष्ये तव तस्य च।
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्।।
त्वादृशं हि कुले जातभनृशंसं बहुश्रुतम्।
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्।।
यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः।
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्।।
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः।
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्।।
भीष्म उवाच।
तत आहूय वैदेहं मुनिर्वचनमब्रवीत्।
अयं राजकुले जातो विदिताभ्यन्तरो मम।।
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा।
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः।।
तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि।
न राज्यमनमात्येन शक्यं शास्तुममित्रहन्।।
अमात्य शुद्ध एव स्याद्बुद्धिसंपन्न एव वा।
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम्।।
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी।
तदा राजपुत्रोऽयं सतां मार्गमनुष्ठितः।
असंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः।।
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्।।
यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत्।
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे।।
त्वं अपि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः।
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः।।
स त्वं धर्ममवेक्षस्व हित्वा लोभमसांप्रतम्।
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि।।
नैव नित्यं जयस्तात नैव नित्यं पराजयः।
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः।।
आत्मन्यपि च संदृश्यावृभौ जयपराजयौ।
निःशेषकारिणां तात निःशेषकरणाद्भयम्।।
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्।
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च।।
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः।
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम्।।
यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा।
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा।।
ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत्।
धर्मतो बुद्धितश्चैव बलेन च जितं मया।।
अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम।
आत्मानमनवज्ञाय जितवद्वर्ततां भवान्।।
नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम्।
नावमन्ये जयामीति जितवद्वर्ततां भवान्।।
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात्।
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्।।
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा।
प्राद्यार्ध्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्।।
ददौ दुहितरं चास्मै रत्नानि विविधानि च।
एष राज्ञां परो धर्मः समौ जयपराजयौ।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि ष़डधिकशततमोऽध्यायः।। 106।।