शांतिपर्व
अध्यायः १०५
मुनिरुवाच।
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि।
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये।।
तां चच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि।
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः।।
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि।
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम्।
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते।।
राजोवाच।
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो।
अमोघ एव मेऽद्यास्तु त्वया सह समागमः।।
मुनिरुवाच।
हित्वा मानं च दम्भं च क्रोधं हर्ष भयं तथा।
प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः।
तमुत्तमेन शौचेन कर्मणा चावधारय।।
दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः।
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि।।
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्।
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः।
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः।।
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः।
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्।।
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्।
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय।।
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च।
शय्यासनानि यानानि महार्हाणि गृहाणि च।।
पक्षिणो मृगजातानि रसगन्धाः फलानि च।
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः।।
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति।
`सदैव राजशार्दूल विदुषा हितमिच्छता।'
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता।।
वसस्व पुरमामित्रं विषये मित्रसंमतः।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनथैकैः।।
आरम्भांश्चास्य महतो दुष्करान्संप्रयोजय।
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम्।।
उद्यानानि महार्हाणि शयनान्यासनानि च।
प्रीतिभोगमुखेनैव कोशमस्य विरोचय।।
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय।
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव।।
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम्।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम्।।
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति।
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च।।
फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः।
न चास्मै मानुषं कर्म दैवप्रस्योपवर्णय।।
असंशयं दैवपरः क्षिप्रमेव विनश्यति।
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्।।
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम्।
त्यागधर्मविदं पुण्यं कंचिदस्योपवर्णय।।
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्।
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना।
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय।।
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः।
शक्या विपहता कर्तुं न क्लीबेन नृपात्मज।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः।। 105।।