शांतिपर्व

अध्यायः १०४

Santi Parva (Sanskrit) · Adhyaya 104
अक्षर का आकार

युधिष्ठिर उवाच।

धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः।
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत्।।

भीष्म उवाच।

अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते।
तत्तेऽह संप्रवक्ष्यामि तन्निबोध युधिष्ठिर।।

क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा।
मुनिं कालकवृक्षीयमाजमामेति नः श्रुतम्।
तं पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः।।

अर्थेषु मागी पुरुष ईहमानः पुनः पुनः।
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति।।

अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात्।
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम।।

व्याधिनां चाभिपन्नस्य मानसेनेतरेण वा।
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत्।।

निर्विद्य हि नरः कामान्नियम्य सुखमेधते।
त्वक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु।।

सुखमर्थाश्रयं येषामनुशोचामि तानहम्।
मम ह्यर्थाः सुबहवो नष्टाः स्वप्नगता इव।।

दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये।
वयं त्वेतान्परित्यक्तुमसतोऽपि न शक्नुमः।।

इमामवस्थां संप्राप्तं दीनमार्तं श्रिया च्युतम्।
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम्।।

कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता।
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः।।

पुरस्तादेव ते बुद्धिरियं कार्या विजानतः।
अनित्यं सर्वमेवैतदहं च मम चास्ति यत्।।

यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः।।

यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति।
एवं विदितवेद्यस्त्वमनर्थेभ्यः प्रमोक्ष्यसे।।

ये च पूर्वसमारम्भा ये च पूर्वतरे परे।
सर्वं नास्तीति ते चैव तज्ज्ञात्वा को नु संज्वरेत्।।

भूत्वा च न भवत्येतदभूत्वा च भविष्यति।
शोके न ह्यस्ति सामर्थ्यं शोचेत स कथं नरः।।

क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहः।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि वा।।

आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि।
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न च विद्यते।।

अहं च त्वं च नृपते सुहृदः शत्रवश्च ते।
अवश्यं न भविष्यामः सर्वं च न भविष्यति।।

ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः।
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्।।

अपि चेन्महतो वित्तान्न प्रमुच्यते पूरुषः।
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः।।

अनागतं यन्न ममेति विद्या
दतिक्रान्तं यन्न ममेति विद्यात्।
दिष्टं बलीय इति मन्यमाना
स्ते पण्डितास्तत्सतां वृत्तिमाहुः।।

अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते।
बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः।।

न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः।
किं न त्वं तैर्नरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः।।

राजोवाच।

यादृच्छिकं सर्वमासीत्तद्राज्यमिति चिन्तये।
ह्रियते सर्वमेवेदं कालेन महता द्विज।।

तस्यैव ह्रियमाणस्य स्रोतसेव तपोधन।
फलमेतत्प्रपश्यामि यथालब्धेन वर्तयन्।।

मुनिरुवाच।

अनागतमतीतं च याथातथ्यविनिश्चयात्।
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव।।

अवाप्यान्कामयन्नर्थान्नानवाप्यान्कदाचन।
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान्।।

यथालब्धोपपन्नार्थैस्तथा कौसल्य रंस्यसे।
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि।।

पुरस्ताद्भूतपूर्वत्वाद्धीनभोग्यो हि दुर्मतिः।
धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते।।

अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्।
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते।।

ईर्ष्याभिमानसंपन्ना राजन्पुरुषमानिनः।
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप।।

सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा।
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते नराः।
अभिनिष्यन्दते देही श्रीभूतश्च द्विषज्जनात्।।

श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः।
त्यागधर्मविदो धीराः स्वयमेव त्यजन्त्युत।।

`त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च।
नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतम्।।

तथाऽन्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम्।
त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः।
गताश्च तपसः पारं दुःखस्यान्तं च भूमिपा।।

बहुसंकुसुकं दृष्ट्वा विधित्सासाधनेन च।
तथान्ये संत्यजन्त्येव मत्वा परमदुर्लभम्।।

त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे।
अकाम्यान्कामयानोऽर्थान्पराधीनानुपद्रवान्।।

तां बुद्धिमनुविज्ञाय त्वमेवैनान्परित्यज।
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः।।

अर्थायैव हि केषांचिद्धननाशा भवन्त्युत।
अनित्यं तत्सुखं मत्वा श्रियमन्ये न लिप्सते।।

रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते।
तथा तस्येहमानस्य संरम्भोऽपि विनश्यति।।

कृच्छ्राल्लब्धमभिप्रेतं यथा कौसल्य नश्यति।
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः।।

`अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति।।'

धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः।
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात्।।

जीवितं संत्यजन्त्येके धनलोभपरा नराः।
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते।।

पश्य चैषां कृपणतां पश्य चैषामबुद्धिताम्।
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः।।

संचये च विनाशान्ते मरणान्ते च जीविते।
संयोगे च वियोगान्ते कोनु विप्रणयेन्मनः।।

धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम्।
अवश्यं प्रजहात्येव तद्विद्वान्कोनु संज्वरेत्।।

अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत।
तेन शान्तिं न लभते नाहमेवेति कारणात्।।'

अन्येषामपि नश्यन्ति सुहृदश्च धनानि च।
पश्य बुद्ध्या मनुष्याणां तुल्यामापदमात्मनः।
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनस्तथा।।

प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेषु च।।

प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसंभवे।
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति।।

अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंस्थितः।
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति।।

न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि।
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम्।।

अपि मूलफलाहारो रमस्वैको महावने।
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः।।

सदृशं पण्डितस्यैतदीषादन्तेन हस्तिना।
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति।।

महाह्रदः संक्षुभित आत्मनैव प्रसीदति।
`एवं नरः स्वत्मानैव कृतप्रज्ञः प्रसीदति।।'

एतदेवं गतस्याहं सुखं पश्यामि केवलम्।
असंभवे श्रियो राजन्हीनस्य सचिवादिभिः।
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुरधिकशततमोऽध्यायः।। 104।।