शांतिपर्व
अध्यायः १०३
युधिष्ठिर उवाच।
कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत।
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर।।
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः।
उपसंगम्य पप्रच्छ वासवः परवीरहा।।
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः।
असमुछिद्य चैवैतान्नियच्छेयमुपायतः।।
सेनयोर्थ्यतिषङ्गे च जयः साधारणो भवेत्।
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी।।
ततो र्मार्थकामानां कुशलः प्रतिभानवान्।
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्।।
न जा कलहेनेच्छेन्नियन्तुमपकारिणः।
बालैर सवितं ह्येतद्यदमर्षो यदक्षमा।।
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता।।
क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि।
अमित्र पसेवेत विश्वस्तवदविश्वसन्।।
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्।
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत्।।
यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः।
तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः।
वशं चोपनयेच्छत्रून्निहन्याच्च पुंरदर।।
न नित्यं परिभूयारीन्सुखं स्वपिति वासव।
जागर्त्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः।।
न सन्निपातः कर्तव्यः सामान्ये विजये सति।
विश्वास्यैवोपसंनम्यो वशे कृत्वा रिपुः प्रभो।।
संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः।
उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः।
अथास्य प्रहरेत्काले विधेर्वित्तलितो यदा।।
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः।।
आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत्।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः।।
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा।
न त्वेव खलु संसर्गं रोचयेदरिभिः सह।।
दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः।
कालकाङ्गी च युक्तः सन्नुपासीत शचीपते।।
तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात्।
न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः।
भूयः शल्यं घटयति नवं च कुरुते व्रणम्।।
प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति।।
यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता।।
औजस्यं जनयेदेव संगृह्णन्साधुसंमतम्।
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत्।।
विहाय कामं क्रोधं च तथाऽहंकारमेव च।
युक्तो विवरमन्विच्छेदहितानां सदा नृपः।।
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम।
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम्।।
निहत्यैतानि चत्वारि मायां प्रतिविधाय च।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्।।
यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽऽचरेत्।
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि।।
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्।।
भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा।।
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः।।
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्।
अमित्रमुपसेवेत न च जातु विशङ्कयेत्।।
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः।।
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम।
यथा विविधवृत्तानामैश्वर्यममराधिप।।
तथा विविधशीलानामपि संभव उच्यते।
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन्।।
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः।
मातीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव।।
यथा वप्रे वेगवति सर्वतः संप्लतोदके।
नित्यं विचरणाद्वाधस्तथा राज्यं प्रमाद्यतः।।
न बहूनुपरुध्येत यौगपद्येन शात्रवान्।
साम्ना दानेन भेदेन दण्डेन च पुरंदर।।
एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत्।
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः।।
यदा स्यान्महती सेना हयनागरथाकुला।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी।।
यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन्।।
न साम दण्डोपनिषत्प्रशस्यते
न मार्दवं शत्रुषु यात्रिकं सदा।
न सस्यघातो न च संकरक्रिया
न चापि भूयः प्रकृतेर्विचारणा।।
मायाविभेदानुपसर्जनानि
वाचं तथैव प्रथमं प्रयोगात्।
आप्तैर्मनुष्यैरुपचारयेत
पुरेषु राष्ट्रेषु च संप्रयुक्तान्।।
पुराऽपि चैताननुसृत्य भूमिपाः
पुरेषु भोगानखिलाञ्जयन्ति
पुरेषु नीतिं विहितां यथाविधि
प्रयोजयन्तो बलवृत्रसूदन।।
प्रदाय गूढानि वसूनि नाम
प्रच्छिद्य भोगानपहाय च स्वान्।
दुष्टाः स्वदोषैरिति कीर्तयित्वा
पुरेषु राष्ट्रेषु च योजयन्ति।।
तथैव चान्यैरपि शास्त्रवेदिभिः
स्वलंकृतैः शास्त्रविधानलिङ्गितैः।
सुशिक्षितैर्भाष्यकथाविशारदैः
परेषु कृत्यामुपधारयेच्च।।
इन्द्र उवाच।
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम।
कथं दुष्टं विजानीयादेतत्पुष्टो ब्रवीहि मे।।
बृहस्पतिरुवाच।
परोक्षमगुणानाह सद्रुणानभ्यसूयति।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्भुखः।।
तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम्।
विश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्।।
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते।
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते।।
पृथगेत्य समश्नाति नेदमद्य यथाविधि।
आसने शयने याने भावा लक्ष्या विशेषतः।।
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्।।
एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः।।
इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम।
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः।।
भीष्म उवाच
स तद्वचः शत्रुनिबर्हणे रत
स्तथा चकारावितथं बृहस्पतेः।
चचार काले विजयाय चारिहा
वशं च शत्रूननयत्पुरंदरः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्र्यधिकशततमोऽध्यायः।। 103।।