शांतिपर्व
अध्यायः १०१
युधिष्ठिर उवाच।
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत।
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः।।
भीष्म उवाच।
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते।
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते।।
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः।
अभीरवः सुबलिनस्तद्वलं सर्वपारगम्।।
सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः।
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः।।
तथा यवनकाम्भोजा मधुरामभितश्च ये।
एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः।
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः।।
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः।
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे।।
प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु।।
सिंहशार्दूलवाङ्गेत्राः सिंहशार्दूलगामिनः।
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः।
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे।
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः।।
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः।
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः।।
बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः।
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः।।
गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा।
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः।।
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः।
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलद्देषु च।।
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः।
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः।।
जिह्नाक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः।
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसंतताः।।
प्रविशन्ति च वेगेन सांपराये ह्युपस्थिते।
वारणा इव संमत्तास्ते भवन्ति दुरासदाः।।
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः।
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः।।
उद्बन्धा इव सुग्रीवा विनताविहगा इव।
पिण्डशीर्षातिवक्राश्च पृषदंशमुखास्तथा।।
अग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः।
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः।।
त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः।
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते।।
अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः।
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकाधिकशततमोऽध्यायः।। 101।।