शांतिपर्व

अध्यायः ९

Santi Parva (Sanskrit) · Adhyaya 9
अक्षर का आकार

युधिष्ठिर उवाच।

मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि।
धारयन्नपि ते श्रुत्वा रोचते वचनं मम।।

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः।
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत।।

क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम्।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु।।

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह।।

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्।
कृशः परिमिताहारश्चर्मचीरजटाधरः।।

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः।
तपसा विधिदृष्टेन शरीरमुपशोषयन्।।

मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः।
मुदितानामरण्येषु नदतां मृगपक्षिणाम्।

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्।।
नानारूपान्वने पश्यन्रमणीयान्वनौकसः।।

वानप्रस्थजनस्यापि दर्शनं कूलवासिनः।
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम्।।

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्।।

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्।।

अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ।
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्।।

पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः।।

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः।।

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः।
अकुर्वाणः परैः कांचित्संविदं जातु कैरपि।।

जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान्।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति।।

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीः क्वचित्।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः।।

अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित्।
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः।।

गमने निरपेक्षश्च पश्चादनवलोकयन्।
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः।।

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्।।

अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित्।
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्।।

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीतपात्रसंचारे काले विगतभिक्षुके।।

एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम्।।

अलाभे सति वा लाभे समदर्शी महातपाः।
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्।।

जीवितं मरणं चैव नाभिनन्दन्न च द्विपन्।
वास्यैकं तक्षतो बाहुं चन्दनेनैकपुक्षतः।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः।।

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः।।

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः।
अपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मपः।।

विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः।।

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम्।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः।।

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः।
कार्यकारणसंश्लिष्टं स्वजनं नाम ब्रिभ्रति।।

आयुपोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्।।

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्।।

जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम्।।

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्।।

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते।।

तस्मात्प्रज्ञामुतमिदं चिरान्मां प्रत्युपस्थितम्।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्।।

एतया संततं धृत्या चरन्नेवंप्रकारया।
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि नवमोऽध्यायः।। 9।।