शल्यपर्व

अध्यायः ५९

Salya Parva (Sanskrit) · Adhyaya 59
अक्षर का आकार

सञ्चय उवाच।

समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः।
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम्।।

अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः।
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन।।

वासुदेव उवाच।

उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्।।

भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम्।।

मायया निर्जिता देवैरसुरा इति नः श्रुतम्।
विरोचनस्तु शक्रेण मायया निर्जितः स वै।।

मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः।
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः।।

प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम्।।

सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः।
मायाविनं तु राजानं माययैव निकृन्ततु।।

यद्येष बलमास्थाय न्यायेन प्रहरिष्यति।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः।।

पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे।
धर्मराजापराधेन भयं नः पुनरागतम्।।

कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्।
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्।
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः।।

अबुद्धिरेषां महती धर्मराजस्य पाण्डव।
यदेकविजये वीर पणितं कृतमीदृशम्।।

सुयोधनः कृती वीर एकायनगतस्तथा।।

अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु।।

पुनरावर्तमानानां भग्नानां जीवितैषिणाम्।
भेतव्यमरिशेषाणामेकायनगता हि ते।।

[साहसोत्पतितानां च निराशानां च जीविते।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय]।।

सुयोधनमिमं भग्नं हतसैन्यं हदं गतम्।
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने।
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्।।

अपि नो निर्जितं राज्यं न हरेत सुयोधनः।
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः।
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया।।

एनं चेन्न महाबाहुरन्यायेन हनिष्यति।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति।।

सञ्जय उवाच।

धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्।।

गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे।
मण्डलानि विचित्राणि यमकानीतराणि च।।

दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव।।

तथैव तव पुत्रोऽपि गदामार्गविशारदः।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया।।

आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ।।

अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ।
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ।।

मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः।।

समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे।
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः।।

तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव।
गदानिर्घातसं हादः प्रहाराणामजायत।।

तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम्।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ।।

तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे।।

तयोः समभवद्युद्धं घोररूपमसंवृतम्।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्।।

समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव।।

जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ।
ददृशाते हिमवति पुष्पिताविव किंशुकौ।।

दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते।
ईषदुत्स्मयमानस्तु सहसा प्रससार ह।।

तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती।।

अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते।
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि।।

मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्।
भीमसेनं च गदया प्राहरत्कुरुसत्तम।।

तस्य विस्यन्दमानेन रुधिरेणामितौजसः।
प्रहारगुरुपाताच मूर्छेव समजायत।।

तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे।
धारयामास भीमोऽपि शरीरमतिपीडितम्।।

अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः।।

ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम्।
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः।।

तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम्।
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ।।

अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः।
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम्।।

अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्।
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत्।।

सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः।
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः।।

सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ।।

स पपात नरव्याघ्रो वसुधामनुनादयन्।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते।।

ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता।।

तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्।
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी।
पपात चोल्का महती पतिते पृथिवीपतौ।।

तथा शोणितवर्षं च पांसुवर्षं च भारत।
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते।।

यक्षाणां राक्षसानां च पिशाचानां तथैव च।
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे।।

तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्।
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्।।

ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह।
मुमुचुस्ते महानादं तव पुत्रे निपातिते।।

बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्।
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते।।

[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप।।

ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च।
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते]।।

हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम।
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्।।

पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन्।
दुर्योधने तदा राजन्पतिते तनये तव।।

दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह।
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ।।

ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा।
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत।।

तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः।। 59 ।।