शल्यपर्व
अध्यायः ६०
सञ्जय उवाच।
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम्।
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः।।
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्।
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः।।
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्।।
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्।
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते।
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि।।
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्।
शिरश्च राजसिंहस्य पादेन समलोडयत्।।
तथैव क्रोधसंरक्तो भीमः परबलार्दनः।
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप।।
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति।।
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्।।
सोऽवाप्य वैरस्य चिरस्य पारं
वृकोदरः प्राह शनैः प्रहस्य।
युधिष्ठिरं केशवसृञ्जयांश्च
धनञ्जयं माद्रवतीसुतौ च।।
रजस्वला द्रौपदीमानयन्ते
ये चाप्यकुर्वन्त सदस्यवस्त्राम्।
0
रणे हतांस्तपसा याज्ञसेन्याः।।
ये नः पुरा षण्ढतिलानवोचन्
क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः।
ते नो हताः सगणाः सानुबन्धाः
कामं स्वर्गं नरकं वा व्रजामः।।
पुनश्च राज्ञः पतितस्य भूमौ
स तां गदां स्कन्धगतां प्रगृह्य।
वामेन पादेन शिरः प्रमृद्य
दुर्योधनं नैकृतिकेत्यवोचत्।।
हृष्टेन राजन्कुरुपार्थिवस्य
क्षुद्रात्मना भीमसेनेन पादम्।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्
धर्मात्मानः सोमकानां प्रबर्हाः।।
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्।।
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना।।
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत्।
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ।।
एकादशचमूनाथं कुरूणामधिपं तथा।
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च।।
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः।।
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः।
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया।।
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि।।
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम्।।
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते।।
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम।।
आत्मनो ह्यपराधेन महद्व्यसनमीहशम्।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत।।
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः।।
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्।।
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव।।
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः।।
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः।
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः।
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्।।]
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः।।
सञ्जय उवाच।
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः।।
।। इति श्रीमन्महाभारते शल्यपर्वणि
गदायुद्धपर्वणि षष्टितमोऽध्यायः।। 60 ।।