शल्यपर्व

अध्यायः ४४

Salya Parva (Sanskrit) · Adhyaya 44
अक्षर का आकार

वैशम्पायन उवाच।

स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत्।।

अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते।।

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा।।

कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते।।

तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः।।

प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम्।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा।।

दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम।।

तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे।।

ते तु सर्वे महाभागाः समागम्य महाव्रताः।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्।।

कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम्।।

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः।।

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः।।

एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्।
विमोचयामहे सर्वे शापादेतां सरस्वतीम्।।

ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा।।

आराध्य पशुभर्तारं महादेवं जगत्पतिम्।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम्।।

तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती।
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा।।

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा।।

कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः।।

वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्।
न च नः कामकारोऽयं यद्वयं पापकारिणा।।

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः।
योषितां चैव पापेन योनिदोषकृतेन च।।

एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः।।

`शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम्।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः'।।

आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः।।

तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे।।

तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः।।

ऋषय ऊचुः।

क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्।
सकेशमवधूतं च रुदितोपहतं च यत्।।

श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्।।

शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्।।

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा।
अरुणामानयामास स्वां तनुं पुरुषर्षभ।।

तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा।।

एतमर्थमभिज्ञाय देवराजः शतक्रतुः।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल।।

जनमेजय उवाच।

किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान्।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्।।

वैशम्पायन उवाच।

शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर।
यथा बिभेद समयं नमुचेर्वासवः पुरा।।

जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्।।

न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे।।

एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः।।

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात्।।

एवं स शिरसा तेन चोद्यमानः पुनः पुनः।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्।।

तमब्रवील्लोकगुरुररुणायां यथाविधि।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे।।

[एषा पुण्यजला शक्र कृता मुनिभिरेव तु।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु।।

ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान्।।

इह त्वं यज देवेन्द्र दद दानान्यनेकशः।
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे।।]

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत्।।

स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः।।

शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम।।

वैशपायन उवाच।

तत्राप्युपस्पृश्य बलो महात्मा
दत्त्वा च दानानि पृथग्विधानि।
अवाप्य धर्मं परमार्यकर्मा
जगाम सोमस्य महत्सुतीर्थम्।।

यत्रायजद्राजसूयेन सोमः
साक्षात्पुरा विधिवत्पार्थिवेन्द्र।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव
होता यस्मिन्क्रतुमुख्ये महात्मा।।

यस्यान्तेऽभूत्सुमहद्दानवानां
दैतेयानां राक्षसानां च देवैः।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो
यत्र स्कन्दस्तारकाख्यं जघान।।

सैनापत्यं लब्धवान्दैवतानां
महासेनो यत्र दैत्यान्तकर्ता।
साक्षाच्चैवं न्यवसत्कार्तिकेयः
सदा कुमारो यत्र स प्लुक्षराजः।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः।। 44 ।।