शल्यपर्व

अध्यायः ४५

Salya Parva (Sanskrit) · Adhyaya 45
अक्षर का आकार

जनमेजय उवाच।

सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम।
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि।।

यस्मिन्देशे च काले च यथा च वदतां वर।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः।।

स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्।
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे।।

वैशम्पायन उवाच।

कुरुवंशस्य सदृशं कौतूहलमिदं तव।
हर्षमुत्पादयत्वेव वचो मे जनमेजय।।

हन्त ते कथयिष्यामि शृण्वानस्य नराधिप।
अभिषेकं कुमारस्य प्रभावं च महात्मनः।।

तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा।
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम्।।

तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः।
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः।।

स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः।
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम्।।

अथ गङ्गापि तं गर्भमसहन्ती विधारणे
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते।।

स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः।।

शरस्तम्बे महात्मानमनलात्मजमीश्वरम्।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः।।

तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा।।

तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः।।

यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि।
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा।।

वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः।।

कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः।
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः।।

शमेन तपसा चैव वीर्येण च समन्वितः।
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः।

स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः।
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा।।

तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः।।

अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा।
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्।

जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः।
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः।।

धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला।।

स ददर्श महात्मानं देवदेवमुमापतिः।
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः।।

निकाया भूतसङ्घानां परमाद्भुतदर्शनाः।
विकृता विकृताकारा विकृताभरणध्वजाः।।

व्याघ्रसिंहर्क्षवदना बिडालमकराननाः।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा।।

उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि।।

श्वाविच्छल्यकगोधानामजैडकगवां तथा।
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन्।।

केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः।।

सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा।।

रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः।
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना।।

शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम्।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः।।

देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः।
पितरो जगतः श्रेष्ठा देवानामपि देवताः।
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः।।

स तु बालोऽपि बलवान्महायोगबलान्वितः।
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्।।

तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्।
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च।।

कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति।
अपि मामिति सर्वेषां तेषामासीन्मनोगतम्।।

तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः।
युगपद्योगमास्थाय ससर्ज विविधास्तनूः।।

ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः।।

एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः।
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः।।

विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम्।
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम्।।

नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः।।

सर्वे भासुरदेहास्ते चत्वारः समरूपिणः।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्।।

हाहाकारो महानासीद्देवदानवरक्षसाम्।
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम्।।

ततो रुद्रश्च देवी च पावकश्च पितामहम्।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्।।

प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव।
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया।।

अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम्।
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि।।

ततः स भगवान्धीमान्सर्वलोकपितामहः।
मनसा चिन्तयामास किमयं लभतामिति।।

ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम्।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः।।

सर्वमेवादिदेशासौ कौरवेय महात्मनः।
समर्थं च तमैश्वर्ये महामतिरमन्यत।।

ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः।
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत।।

सर्वदेवनिकायानां ये राजानः परिश्रुताः।
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः।।

ततः कुमारमादाय देवा ब्रह्मपुरोगमाः।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः।।

पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता।।

तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः।। 45 ।।