शल्यपर्व

अध्यायः ४३

Salya Parva (Sanskrit) · Adhyaya 43
अक्षर का आकार

जनमेजय उवाच।

वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः।
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्।।

कथमस्याभवद्वैरं कारणं किं च तत्प्रभो।
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति।।

वैशम्पायन उवाच।

विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत।
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत्।।

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्।
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः।।

यत्र स्थाणुर्महाराज तप्तवान्परमं तपः।
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः।।

यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्।
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो।।

तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप।
सैनापत्येन महता सुरारिविनिबर्हणम्।।

तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः।
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु।।

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत।
स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ।।

तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः।
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह।।

तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत।
इदं सरस्वती तूर्णं मत्समीपं तपोधनम्।।

आनयिष्यति वेगेन वसिष्ठं जपतां वरम्।
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः।।

एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः।
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः।।

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह।
गत्वा चैनं महावीर्यं महाकोपं च भामिनी।।

तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम्।
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती।।

हतवीरा यथा नारी साऽभवद्दुःखिता भृशम्।
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्।।

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय।
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी।।

साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा।
प्राकम्पत भृशं भीता वायुनेवाहता लता।।

तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम्।
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम।।

सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम्।
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि।।

साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत्।
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता।।

उभयोः शापयोर्भीता वेपमाना पुनःपुनः।
चिन्तयित्वा महाशापमृषिविप्रासिता भृशम्।।

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्।
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः।।

पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी।
विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम्।।

तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्।
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्।।

तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि।
कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया।।

अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्।
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्।।

इदमन्तरमित्येवं ततः सा सरितां वरा।
कूलापहारमकरोत्स्वेन वेगेन सा सरित्।।

तेन कूलापहारेण मैत्रावरुणिरौह्यत।
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम्।।

पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः।।

त्वमेवाकाशगा देवि मेघेषु सृजसे पयः।
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि।।

पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा।
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्।
त्वमेव सर्वभूतेषु वससीह चतुर्विधा।।

वैशम्पायन उवाच।

एवं सरस्वती राजन्स्तूयमाना महर्षिणा।
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति।।

न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम्।।

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः।
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा।।

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी।
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्।।

ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्।
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम्।।

यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता।
शोणितं वह कल्याणि राक्षसानां च सम्मतम्।।

ततः सरस्वती शप्ता विश्वामित्रेण धीमता।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा।।

अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा।
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः।।

एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप।
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि त्रिचत्वारिंशोऽध्यायः।। 43 ।।