शल्यपर्व

अध्यायः २४

Salya Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

सञ्जय उवाच।

युध्यतां यतमानानां शूराणामनिवर्तनाम्।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः।।

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः।
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः।।

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना।
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः।।

पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे।।

हतधुर्या रथाः केचिद्धतसूतास्तथा परे।
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते।।

अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः।
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः।।

केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः।
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः।।

बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा।
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते।।

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः।
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः।।

तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम्।
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे।।

तानपास्य गताः केचित्पुनरेव युयुत्सवः।
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः।।

पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्।
वर्माणि च समारोप्य केचिद्भरतसत्तम।।

समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च।
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्।।

सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते।
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन्।।

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे।
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः।।

आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः।
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्।।

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः।
नाकुलिस्तु शतानीको रथानीकमयोधयन्।।

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः।
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः।।

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप।
बाणसङ्घाननेकान्वै प्रेषयामास भारत।।

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना।
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः।।

वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः।
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः।।

सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः।
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्।।

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः।
अपाक्रामद्वतरथो नातिदूरमरिन्दमः।।

दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः।
तव पुत्रो महाराज प्रययौ यत्र सौबलः।।

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः।
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन्।।

ते वृताः समरे पञ्च गजानीकेन भारत।
अशोभन्त महाराज ग्रहास्तारागणैरिव।।

ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः।।

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत्।।

तत्रैकबाणनिहतानपश्याम महागजान्।
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना।।

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः।
करेणादाय महतीं गदामभ्यपतद्बली।
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः।।

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्।
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः।।

आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे।।

गदया भीमसेनेन भिन्नकुम्भान्निपातितान्।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान्।।

प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः।।

प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः।
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः।।

युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ।
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः।।

धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम्।
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते।।

दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान्।
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत्।।

पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ।
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम्।।

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः।।

तेऽपश्यमाना राजानं वर्तमाने जनक्षये।
मन्वाना निहतं तत्र तव पुत्रं महारथाः।
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्।।

आहुः केचिद्वते सूते प्रयातो यत्र सौबलः।
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्।।

अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः।
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति।
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति।।

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः।
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन्।।

इदं सर्वं बलं हन्मो येन स्म परिवारिताः।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः।।

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः।
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्।।

कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः।।

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान्।।

दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान्।
पराक्रान्तास्ततो वीरा निराशा जीविते तदा।।

विवर्णमुखभूयिष्ठमभवत्तावकं बलम्।
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान्।।

राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः।
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह।।

तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः।
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः।।

धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान्।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः।।

अथापश्यं सात्यकिं तमुपायातं महारथम्।
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे।।

धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात्।
पतितो माधवानीकं दुष्कृती नरकं यथा।।

तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम्।।

सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्।
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि।।

ततो मुहूर्तादिव तद्गजानीकमविध्यत।
गदया भीमसेनेन नाराचैरर्जुनेन च।।

अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः।
नातिप्रसिद्धैव गतिः पाण्डवानामजायत।।

रथमार्गं ततश्चक्रे भीमसेनो महाबलः।
पाण्डवानां महाराज व्यपाकर्षन्महागजान्।।

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम्।
राजानं मृगयामासुस्तव पुत्रं महारथम्।।

परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः।
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः।। 24 ।।