शल्यपर्व

अध्यायः २५

Salya Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

सञ्जय उवाच।

गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत।
वध्यमाने बले चैव भीमसेनेन संयुगे।।

चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम्।
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम्।।

समेत्य समरे राजन्हतशेषाः सुतास्तव।
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव।
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्।।

श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः।
दुर्विमोचनकश्चैव तथा दुर्विषहो बली।।

दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः।
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः।
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम्।।

ततो भीमो महाराज स्वरथं पुनरास्थितः।
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु।।

ते कीर्यमाणा भीमेन पुत्रास्तव महारणे।
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम्।।

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह।
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले।।

ततोऽपरेण भल्लेन सर्वावरणभेदिना।
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः।।

जयत्सेनं ततो विद्वा नाराचेन हसन्निव।
पातयामास कौरव्यं रथोपस्थादरिन्दमः।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च।।

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष।
शतेन गृघ्रवाजानां शराणां नतपर्वणाम्।।

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्।
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः।।

ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः।।

ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे।।

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः।।

दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव।
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ।।

ततः पतन्तं समरे अभिवीक्ष्य सुतं तव।
भल्लेन पातयामास भीमो दुर्विपहं रणे।।

स पपात हतो बाहात्पश्यतां सर्वधन्विनाम्।।

दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे।
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात्।।

विक्षिपन्सुमहच्चापं कार्तखरविभूषितम्।
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून्।।

स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्।।

ततोऽन्यद्धनुरादाय भीमसेनो महाबलः।
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत्।।

महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्।
बादृशं समरे पूर्वं तम्भवासवयोर्युधि।।

तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः।
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा।।

अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्।।

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः।।

ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम्।।

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्।।

श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी।
अथास्याददतः खह्गं शतचन्द्रं च भानुमत्।
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः।।

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना।
पपात कायः स्वरथाद्वसुधामनुनादयन्।।

तस्मिन्निपतिते वीरे तावका भयमोहिताः।
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः।।

तानापतत एवाशु हतशेषाद्बलार्णवात्।
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान्।।

ते तु तं वै समासाद्य परिवव्रुः समन्ततः।।

ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्।।

ततः पञ्चशतान्हत्वा सवरूथान्महारथान्।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि।।

हत्वा शतसहस्राणि पत्तीनां परमेषुभिः।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते।।

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो।।

तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप।।

विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान्।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्।।

हतभूयिष्ठयोधा तु तव सेना विशामम्पते।
किञ्चिच्छेषा महाराज कृपणं समपद्यत।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः।। 25 ।।