सभापर्व
अध्यायः ८५
वैशम्पायन उवाच।।
उपोह्यमाने द्यूते तु राजानः सर्व एव ते।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः।।
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः।
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत।।
ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः।
सिंहासनानि भूरिणी विचित्राणि च भेजिरे।।
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः।
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्।।
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः।
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम्।।
युधिष्ठिर उवाच।।
अयं बुहधनो राजन्सागरावर्तसम्भवः।
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः।।
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव।
येन मां त्वं महाराज धनेन प्रतिदीव्यसे।।
दुर्योधन उवाच।।
सन्ति मे मणयश्चैव धनानि सुबहूनि च।
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम्।।
वैशम्पायन उवाच।।
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।।
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम्।।
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः।
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्।।
युधिष्ठिर उवाच।।
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः।।
संह्रादनो राजरथो य इहास्मानुपावहत्।
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः।।
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः।
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।।
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः।।
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः।।
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु।
स्नातकानाममात्यानां राज्ञां च मम शासनात्।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।
एतावन्ति च दासानां सहस्राण्युत सन्ति मे।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा।।
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः।
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरभाषत।।
युधिष्ठिर उवाच।।
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः।।
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः।।
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।।
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः।।
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्।
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्।
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।।
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने।।
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
तमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।।
रथानां शकटानां च श्रेष्ठानां चायुतानि मे।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा।।
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः।।
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्।
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।
युधिष्ठिर उवाच।
ताम्रलोहैः परिवृता निधयो ये चतुः शताः।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै।।
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया।।
वैशम्पायन उवाच।।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः।
जितमित्येव शकुनिर्युधिष्ठिरमभापतः।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि पञ्चाशीतितमोऽध्यायः।।85 ।।