सभापर्व

अध्यायः ८६

Sabha Parva (Sanskrit) · Adhyaya 86
अक्षर का आकार

वैशम्पायन उवाच।।

एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि।
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत्।।

महाराज विजानीहि यत्त्वां वक्ष्यामि भारत।
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्।।

यद्वै पुरा जातमात्रो रुराव
गोमायुवद्विस्वरं पापचेताः।
दुर्योधनो भारतानां कुलघ्नः
सोऽयं युक्तो भवतां कालहेतुः।।

गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे।
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम।।

मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते।
आरुह्य तं मज्जति वा पतनं चाधिगच्छति।।

सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते।
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः।।

विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्।
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया।।

अन्धका यादवा भोजाः समेताः कंसमत्यजन्।
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना।।

एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः।
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्।।

निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम्।
काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च।
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे।।

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।।

सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः।
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान्।।

हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्।
गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत्।
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप।।

आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्।
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप।।

मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा।
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत।।

मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः।
वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्।
मा गमः समुतामात्यः सबलश्च यमक्षयम्।।

समवेतान्हि कः पार्थान्प्रतियुध्येत भारत।
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः।।

द्यूतं मूलं कलहस्याभ्युपैति
मिथो भेदं महते दारुणाय।
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो
दुर्योधनः सृजते वैरमुग्रम्।।

प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः।
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः।।

दुर्योधनो मदेनैव क्षेमं व्यपोहति।
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः।।

यश्चित्तमन्वेति परस्य राजन्
वीरः कविः स्वामवमत्य दृष्टिम्।
नावं समुद्र इव बालनेत्रा-
मारुह्य घोरे व्यसने निमज्जेत्।।

दुर्योधनो ग्लहते पाण्डवेन
प्रीयायसे त्वं जयतीति तच्च।
अतिनर्मा जायते संप्रहारो
यतो विनाशः समुपैति पुंसाम्।।

आकर्षस्तेऽवाक्फलः सुप्रणीतो
हृदि प्रौढो मन्त्रपदः समाधिः।
युधिष्ठिरेण कलहस्तवाय-
मचिन्तितोऽभिमतः स्वबन्धुना।।

प्रातिपेयाः शान्तनवाः शृणुध्वं
काव्यां वाचं संसदि कौरवाणाम्।
वैश्वानरं प्रज्वलितं सुघोरं
मा यास्यध्वं मन्दमनुप्रपन्नः।।

यदा मन्युं पाण्डवोऽजातशत्रु-
र्न संयच्छेदक्षमदाभिभूतः।
वृकोदरः सव्यसाची यमौ च
कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्।।

महाराज प्रभवस्त्वं धनानां
पुरा द्यूतान्मनसा यावदिच्छेः।
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं
किं ते तत्स्याद्वसु विन्देह पार्थान्।।

जानीमहे देवितं सौबलस्य
वेद द्यूते निकृतिं पार्वतीयः।
यतः प्राप्तः शकुनिस्तत्र यातु
मा यूयुधो भारत पाण्डवेयान्।।

।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि षडशीतितमोऽध्यायः।। 86।।