सभापर्व
अध्यायः ८४
वैशम्पायन उवाच।।
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः।
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च।।
यथावयः समेयाना उपविष्टा यथार्हतः।
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च।।
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च।
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत।।
शकुनिरुवाच।।
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः।
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर।।
युधिष्ठिर उवाच।
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः।
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि।।
हि मानं प्रशंसन्ति निकृतौ कितवस्य हि।
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत्।।
शकुनिरुवाच।
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ-
श्चेष्टास्वखिन्नः कितवोऽक्षजासु।
महामतिर्यश्च जानाति द्यूतं
स वै सर्वं सहते प्रक्रियासु।।
अक्षग्लहः सोऽभिभवेत्परं न-
स्तेनैव दोषो भवतीह पार्थ।
दीव्यामहे पार्थिव मा विशङ्कां
कुरुष्व पाणं च चिरं च मा कृथाः।।
युधिष्ठिर उवाच।
एवमाहायमसितो देवलो मुनिसत्तमः।
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा।।
इदं वै देवनं पापं निकृत्या कितवैः सह।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्।।
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत।
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम्।।
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे।
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान्।।
निकृत्या कामये नाहं सुखान्युत धनानि वा।
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते।।
शकुनिरुवाच।
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः।।
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः।।
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः।
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः।
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः।।
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे।
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्।।
युधिष्ठिर उवाच।।
आहूतो न निवर्तेयमिति मे व्रतमाहितम्।
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः।।
अस्मिन्समागमे केन देवनं मे भविष्यति।
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम्।।
दुर्योधन उवाच।
अहं दातास्मि रत्नानां धनानां च विशाम्पते।
मदर्थे देविता चायं शकुनिर्मातुलो मम।।
युधिष्ठिर उवाच।।
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे।
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम्।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि चतुरशीतितमोऽध्यायः।।84 ।।