सभापर्व
अध्यायः ८३
वैशम्पायन उवाच।।
ततः प्रायाद्विदुरोऽश्वैरुदारै-
र्महाजवैर्बलिभिः साधु दान्तैः।
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा
मनीषिणां पाण्डवानां सकाशे।।
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्।
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः।।
स राजगृहमासाद्य कुबेरभवनोपमम्।
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्।।
तं वै राजा सत्यधृतिर्महात्मा
अजातशत्रुर्विदुरं यथावत्।
पूजापूर्वं प्रतिगृह्याजमीढ-
स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्।।
युधिष्ठिर उवाच।।
विज्ञायते ते मनसोऽप्रहर्षः
कच्चित्क्षत्तः कुशलेनागतोऽसि।
कच्चित्पुत्राः स्थविरस्यानुलोमा
वशानुगाश्चापि विशोऽथ कच्चित्।।
विदुर उवाच।।
राजा महात्मा कुशली सपुत्र
आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः।
प्रीतो राजन्पुत्रगुणैर्विनीतो
विशोक एवात्मरतिर्महात्मा।।
इदं तु त्वां कुरुराजोऽभ्युवाच
पूर्वं पृष्ट्वा कुशलं चाव्ययं च।
इयं सभा त्वत्सभातुल्यरूपा
भ्रातॄणां ते दृस्यतामेत्य पुत्र।।
समागम्य भ्रातृभिः पार्थ तस्यां
सुहृद्द्यूतं क्रियतां रम्यतां च।
प्रीयामहे भवतां सङ्गमेन
समागताः कुरवश्चापि सर्वे।।
दुरोदरा विहिता ये तु तत्र
महात्मना धृतराष्ट्रेण राज्ञा।
तान्द्रक्ष्यसे कितवान्सन्निविष्टा-
नित्यागतोऽहं नृपते तज्जुषस्व।।
युधिष्ठर उवाच।।
द्यूते क्षत्तः कलहो विद्यते नः
को वै रोचतने बुध्यमानः।
किं वा भवान्मन्यते युक्तरूपं
भवद्वाक्ये सर्व एव स्थिताः स्मः।।
विदुर उवाच।।
जानाम्यहं द्यूतमनर्थमूलं
कृतश्च यत्नोऽस्य मया निवारणे।
राजा च मां प्राहिमोत्त्वत्सकाशं
श्रुत्वा विद्वञ्श्रेय इहाचरस्व।।
युधिष्ठिर उवाच।।
के तत्रान्ये कितवा दीव्यमाना
विना राज्ञो धृतराष्ट्रस्य पुत्रैः।
पृच्छामि त्वां विदुर ब्रूहि नस्तान्
यैर्दीव्यामः शतशः सन्निपत्य।।
विदुर उवाच।।
गन्धारराजः शकुनिर्विशाम्पते
राजाऽतिदेवी कृतहस्तो मताक्षः।
विनिंशतिश्चित्रसेनश्च राजा
सत्यव्रतः पुरुमित्रो जयश्च।।
युधिष्ठिर उवाच।।
महाभयाः कितवाः सन्निविष्टा
मायोपधा देवितारोऽत्र सन्ति।
धात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगत्तिष्ठति न स्वतन्त्रम्।।
नाहं राज्ञो धृतराष्ट्रस्य शासना-
न्न गन्तुमिच्छामि कवे दुरोदरम्।
इष्टो हि पुत्रस्य पिता सदैव
तदस्मि कर्ता विदुरात्थ मां यथा।।
न चाकामः शकुनिना देविताहं
न चेन्मां जिष्णुराह्वयिता सभायाम्।
आहूतोऽहं न निवर्ते कदाचित्
तदाहितं शाश्वतं वै व्रतं मे।।
वैशम्पायन उवाच।।
एवमुक्त्वा विदुरं धर्मराजः
प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्।
प्रायाच्छ्वोभूते सगणः सानुयात्रः
सह स्त्रीभिर्दौपदामादि कृत्वा।।
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्।
धातुश्च वशमन्वेति पाशैरिव नरः सितः।।
इत्युक्त्वा प्रययौ राजा सह क्षत्र्रा युधिष्ठिरः।
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः।।
बाह्लिकेन रथं यत्तमास्थाय परवीरहा।
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः।
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः।।
`सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति।
ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम्।।
ततो राजा महातेजाः संयम्य सपरिच्छदम्।
ह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि।
अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे।।
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम्।
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम्।।
हारी किरीटी हेमाभः सर्वाभरणभूषितः।
रराज राजन्पार्थो वै परया नृपशोभया।।
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः।
ततो जगाम राजा स प्रहृष्टनरवाहनः।।
रथघोषेण महता पूरयन्वै नभः स्थलम्।
संस्तूयमानः स्तुतिभिः सूतमागधबन्दिभिः।।
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः।
ण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।।
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट्।
चामरैर्हेमदण्डैश्च धूयमानः समन्ततः।।
याशिषः प्रहृष्टानां नराणां पथि पाण्डवः।
प्रत्यगृह्णाद्यथान्यायं यथआवद्भरतर्षभः।।
तथैव सैनिका राजन्राजानमनुयान्ति ये।
तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः।।
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली।
उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ।।
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ।
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ।।
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः।
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः।।
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः।
द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः।।
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च।
महत्या सेनया राजन्नग्रे यानानि विविधानि च।
समृद्धनरनागाश्वं सपताकरथध्वजम्।
संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम्।।
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम्।
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप।।
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया।
महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति।।
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना।
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा।।
स सरांसि नदीश्चैव वनान्युपवनानि च।
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत।।
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः।
चक्रे निवेशनं तत्र ततः स सहसैनिकाः।।
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा।
ततोराजन्समाहूय शोकविह्वलया गिरा।।
तद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम्।
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह।।
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम्।
न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे।
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा।।
वैशम्पायन उवाच।।
प्रविवेश ततो राजा नगरं नागसाह्वयम्।
धृतराष्ट्रेण चाहूतः कालस्य समयेन च'।।
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ।
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः।।
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च।
समियाय यथान्यायं द्रौणिना च विभुः सह
समेत्य च महाबाहुः सोमदत्तेन चैव ह।
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान्।।
ये चान्ये तत्र राजानः पूर्वमेव समागताः।
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च।।
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः।
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः।।
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः।
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्।।
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्।
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः।।
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्।।
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः।
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः।।
ततो हर्षः समभवत्कौरवाणां विशाम्पते।
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्।।
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च।
ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः।।
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव।
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्।।
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम्।
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च।।
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः।
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च।।
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ।
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः।।
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्।
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्।।
मुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः।
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि व्यशीतितमोऽध्यायः।।83 ।।