सभापर्व
अध्यायः ८२
शकुनिरुवाच।।
यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे।
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर।।
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः।
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे।।
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये।
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत।।
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम्।।
दुर्योधन उवाच।
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित्।
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि।।
धृतराष्ट्र उवाच।
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्।।
दुर्योधन उवाच।।
`कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते।
केवलं धर्ममेवाह न तद्विजयसाधकम्।।
जयश्च धर्मतोपेतस्तथैव भरतर्षभ।
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ'।।
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः।
पाण्डवानां हिते युक्तो न तथा मम कौरव।।
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन।।
भयं परिहरन्मत्त आत्मानं परिपालयन्।
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति।।
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्।।
धृतराष्ट्र उवाच।।
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते।
वैरं विकारं सृजति तद्वै शस्त्रमनायसम्।।
अनर्थमर्थं मन्यसे राजपुत्र
सङ्ग्रन्थनं कलहस्यातियाति।
तद्वै प्रवृत्तं तु यथाकथञ्चित्
सृजेदसीन्निशितान्सायकांश्च।।
दुर्योधन उवाच।।
द्यूते पुराणैर्व्यवहारः प्रणीत-
स्तत्रात्ययो नास्ति न सम्प्रहारः।
तद्रोचतां शकुनेर्वाक्यमद्य
सभां क्षिप्रं त्वमिहाज्ञापयस्व।।
स्वर्गद्वारं दीव्यतां नो विशिष्टं
तद्वर्तिनां चापि तथैव युक्तम्।
भवेदेवं ह्यात्मना तुल्यमेव
दुरोदरं पाण्डवैस्त्वं कुरुष्व।।
धृतराष्ट्र उवाच।
वाक्यं न मे रोचते यत्त्वयोक्तं
यत्ते प्रियं तत्क्रियतां नरेन्द्र।
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं
न हीदृशं भावि वचो हि धर्म्यम्।।
दृष्टं ह्येतद्विदुरेणै सर्वं
विपश्चिता बुद्धिविद्यानुगेन।
तदेवैतदवशस्याभ्युपैति
महद्भयं क्षत्रियजीवघाति।।
वैशम्पायन उवाच।।
एवमुक्त्वा धृतराष्ट्रो मनीषी
दैवं मत्वा परमं दुस्तरं च।
शशासोच्चैः पुरुषान्पुत्रवाक्ये
स्थितो राजा दैवसंमूढचेताः।।
सहस्रस्तम्भां हेमवैदूर्यचित्रां
शतद्वारां तोरणस्फाटिकाढ्याम्।
सभामग्र्यां क्रोशमात्रायतां मे
तद्विस्तारामाशु कुर्वन्तु युक्ताः।।
श्रुत्वा तस्य त्वरिता निर्विशङ्काः
प्राज्ञा दक्षास्तां तदा चक्रुराशु।
सर्वद्रव्याण्युपजह्रुः सभायां
सहस्रशः शिल्पिनश्चैव युक्ताः।।
कालेनाल्पेनाथ निष्ठां गतां तां
सभां रम्यां बहुरत्नां विचित्राम्।
चित्रैर्हैमैरासनैरभ्युपेता-
माचख्युस्ते तस्य राज्ञः प्रतीताः।।
ततो विद्वान्विदुरं मन्त्रिमुख्य-
मुवाचेदं धृतराष्ट्रो नरेन्द्रः।
युधिष्ठिरं राजपुत्रं च गत्वा
मद्वाक्येन क्षिप्रमिहानयस्व।।
सभेयं मे बहुरत्ना विचित्रा
शय्यासनैरुपपन्ना महार्हैः।
सा दृश्यतां भ्रातृभिः सार्धमेत्य
मुहृद्द्यूतं वर्ततामत्र चेति।।
वैशम्पायन उवाच।।
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः।
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह।।
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः।
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्।।
विदुर उवाच।।
नाभिनन्दे नृपते प्रैषमेतं
मैवं कृथाः कुलनाशाद्बिभेमि।
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या-
देतच्छङ्के द्यूतकृते नरेन्द्र।।
धृतराष्ट्र उवाच।
नेह क्षत्तः कलहस्तप्स्यते मां
न चेद्दैवं प्रतिलोमं भविष्यत्।
छात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगच्चेष्टति न स्वतन्त्रम्।।
तदद्य विदुर प्राप्य राजानं मम शासनात्।
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्।।
।। इति श्रीमन्महाभारते सभापर्वणि
द्यूतपर्वणि द्व्यशीतितमोऽध्यायः।। 82 ।।