सभापर्व

अध्यायः ५६

Sabha Parva (Sanskrit) · Adhyaya 56
अक्षर का आकार

भीष्म उवाच।।

निहत्य नरकं भौमं सत्यभामासहायवान्।
सहितो लोकपालैश्च ददर्श नरकालयम्।।

अथास्य गृहमासाद्य नारकस्य महात्मनः।
ददर्श धनमक्षय्यं रत्नानि विविधानि च।

मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च।
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि।।

जाम्बूनदमयान्येव शातकुम्भमयानि च।
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च।।

हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्।
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु।।

न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः।
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि।।

हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत्।
दाशार्हपतिमासीनमाहृत्य मणिकुण्डले।।

हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः।
विमलानि पताकानि वासांसि विविधानि च।।

भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः।
ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः।।

अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः।
गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन।।

एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम।
वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया।।

भीष्म उवाच।

देवगन्धर्वरत्नानि दैतेयासुरजानि च।
यानि सन्ति हिरण्यानि नरकस्य निवेशने।।

एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः।
दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम्।।

चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः।।

हर्म्याणि च विशालानि मणिसोपानवन्ति च।
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम्।।

गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा।
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम्।।

परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः।
पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः।।

व्रतसन्तापजः शोके नात्र कश्चिदपीडयत्।
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि।।

समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः।
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः।।

नारदेन समाख्यातमस्माकं पुरुषोत्तम।
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये।।

सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च।
भौमं च सपरीवारं हयग्रीवं च दानवम्।।

तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्।
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति।।

एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा।
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे।।

कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्।
इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम।
तपश्चराम सततं रक्ष्यमाणा हि दानवैः।।

ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत्।
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति।।

भीष्ण उवाच।।

तासां परमनारीणामृषभाक्षं पुरः स्थितम्।
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम्।।

तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः।
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन्।

सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत्।
सर्वभूतहितज्ञश्च महर्षिरपि नारदः।।

विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत्।
स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम्।।

दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः।
वचनादेव सत्यं नो भर्ता भवितुमर्हसि।।

यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम।
दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः।।

उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः।
यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति।।

ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः।
क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः।।

सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्।
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम्।।

न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्।
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम्।।

स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि।
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम्।।

उपेन्द्रं बलदेवं च वासवं च महाबलम्।
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः।।

दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्।
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन्।।

सञ्जहार महाभ्राणि वैश्वानरपथं गतः।
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा।।

प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप।
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः।।

शक्रसद्म समासाद्य चावरुह्य जनार्दनः।
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः।
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च।।

अदितेः कुण्डले दिव्ये ददावथ तदा विभुः।
रत्नान च परार्घ्याणि रामेण सह केशवः।।

प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम्।
पूजयामास दाशार्हं रामं च विगतज्वरा।।

शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा।
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत्।।

सा तस्याः सत्यभामायाः कृष्णाप्रियचिकीर्षया।
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा।।

जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले।
सर्वगन्धगुणोपेता भविष्यसि वरानने।।

विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा।
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम्।।

सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः।
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः।।

शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः।
वर्घमानपुरद्वारमाससाद सुरोत्तमः।।

।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि षट्‌पञ्चाशोऽध्यायः।। 56।।