सभापर्व
अध्यायः ५५
भीष्ण उवाच।।
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः।
द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत।।
ततो महात्मा यानानि रत्नानि विविधानि च।
यथार्हं पुण्डरीकाक्षो नैर्ऋतात्प्रत्यपद्यत।।
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः।
ताञ्जघान महाबाहुर्वरमत्तान्महासुरान्।।
स विघ्नमकरोत्तत्र नरको नाम नैर्ऋतः।
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर।।
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा।
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः।।
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्।
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः।।
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः।
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह।।
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा।
मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः।।
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत्।
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः।।
तस्यास्य पुरुषेन्द्रस्यलोकप्रथिततेजसः।
निवासो द्वारकायां तु विदितो वः प्रधानतः।।
अतीव हि पुरी रम्या द्वारका वासवक्षयात्।
अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर।।
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया।
सुधर्मेति च विख्याता योजनायतविस्तृता।।
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते।।
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ।
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः।।
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः।
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः।
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत।।
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह।
उत्पत्य सहसा देवे नमस्कारमकुर्वत।।
सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम्।
सस्वजे बलदेवं च राजानं च तमाहुकम्।।
वासुदेवोद्धवौ चैव विकद्रुं च महामतिम्।
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम्।।
गदं सारणमक्रूरं भानुझल्लिविडूरथान्।
तथैव कृतवर्णाणां चारुदेष्णं महाबलम्।।
देवकल्पान्महाराज तान्दाशार्हपुरोगमान्।
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः।।
वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः।
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः।।
सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम्।
उवाच परमप्रीतो जहि भौमं नरेश्व।।
भीष्ण उवाच।
निहत्य नरकं भौममाहरिष्यामि कुण्डले।
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत।।
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले।
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः।।
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत्।
ययौ तदा हृषीकेशो देवानां हितकाम्यया।।
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः।
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम्।
उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान्।
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रं ददर्श सः।।
स़ञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम्।
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत्।।
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत्।
तं जघान महावीर्यं हयग्रीवं महाबलम्।।
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः।।
मध्ये लोहितगङ्गायां भगवान्देवकीसुतः।।
औदकायां विरूपाक्षं जघान मधुसूदनः।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया।
पुरमासादयामास तत्र युद्धमवर्तत।।
तद्युद्धमभवद्घोरं तेन भौमेन भारत।
कुण्डलार्थे सुरेशस्य नरकेण महात्मना।।
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः।
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली।।
चक्रप्रमथितं तस्य पपात सहसा भुवि।
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा।।
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम्।
प्रदाय च महाबाहुमिदं वचनमब्रवीत्।।
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः।
यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय।।
श्रीवासुदेव उवाच।
देवानां च मुनीनां च पितॄणां च महात्मनाम्।
उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः।।
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः।
सर्वलोकनमस्कार्यामदितं बाधयद्वली।।
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः।
नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि ।।
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम्।
तस्माद्गच्छ महाभागे भारावतरणं कृतम्।।
।। इति श्रीमन्महाभारते सभापर्वणि
अर्घाहरणपर्वणि पञ्चपञ्चाशोऽध्यायः।।55 ।।