सभापर्व
अध्यायः ५७
तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः।
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे।।
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून्।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान्।।
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः।
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा।।
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः।
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम्।।
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम्।
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम्।।
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा।।
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी।
गीतघोषमहाघोषैः प्रसादप्रवरैः शुभा।।
तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम्।
नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः।।
समुच्छ्रितपताकानि पारिप्लवनिभानि च।
काञ्चनाभानि भाखन्ति मेरुकूटनिभानि च।।
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः।
रत्नसानुमहाशृङ्गैः सर्वरत्नसमन्वितैः?
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्ज्अरैः।
सयन्त्रगृहसंबाधैः सधातुभिरिवाद्रिभिः।।
मणिकाञ्चनभ्ॐऐश्च सुधामृष्टतलैस्तथा।
जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः।।
सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः।।
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः।
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा।।
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः।
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः।।
वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता।
ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता।।
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा।
ददृशुर्वासुदेवस्य चतुर्योजनमायतम्।।
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः।
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः।।
यं चकार महाभागस्त्वष्टा वासवचोदितः।
प्रासादं हेमनाभस्य सर्वतो योजनायतम्।।
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम्।
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना।।
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्।
विचित्रमणिसोपानं यं विदुः शीतवानिति।।
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम्।
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम्।।
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः।
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन्।।
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः।
विश्वकर्माकरोदेनं कैलासशिखरोपमम्।।
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः।।
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी।
सुकेशी नाम विख्याता केशवेन निवेशिता।।
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः।
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः।।
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते।
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना।।
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः।
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता।।
यं विदुः सर्वभूतानि हरिरित्येव भारत।
सुमित्रविजयावासो देवर्षिगणपूजितः।।
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्।
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः।।
महिष्या वासुदेवस्य केतुमानिति विश्रुतः।
प्रसादो विरजो नाम विरजस्को महात्मनः।।
उपस्थानगृहं तात केशवस्य महात्मनः।
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम्।।
योजनायतविष्कम्भं सर्वरत्नमयं विभोः।
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः।।
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः।
घण्टाजालानि तत्रैव सर्वेषां निवेशने।।
आहृत्य यदुसिंहेन वैजयन्तच्छलो महात्।
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत्।।
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम्।
सकिन्नरमहानादं तदप्यमिततेजसः।।
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्।
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम्।।
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्।
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम्।।
भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम्।
यमिन्द्रभवनाच्छौरिराजहार परन्तपः।।
पारिजातः स तत्रैव केशवेन निवेशितः।
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः।।
विहिता वासुदेवेन तत्रैव च महाद्रुमाः।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः।।
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च।
तासां परमकूलि शोभयन्ति महाद्रुमाः।।
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः।
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः।।
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः।
ये च हैमवता वृक्षा ये च नन्दनजास्तथा।।
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः।
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः।।
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु।
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः।।
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः।
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः।।
सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा।
केतकाः केसराश्चैव हिनतालतलताटकाः।।
तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः।
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा।।
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः।
लिकुचामृताश्चैव क्षीरिका कर्णिका तथा।।
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च।
कदली जातमल्ली च पाटली कुमुदोत्पलाः।।
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः।
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः।।
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः।
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः।।
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः।
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः।।
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः।
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः।।
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा।
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः।।
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने।
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः।।
समाहिता महानद्यः पीतलोहितवालुकाः।
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः।।
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः।
बभूवुः परमोपेताः सर्वे जगति पर्वताः।।
तत्रैव गजयूथानि तत्र गोमहिषास्तथा।
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम्।।
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि।
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः।।
तेन ते च महाशैलाः सरितश्च सरांसि च।
परिक्षिप्तानि वै तस्य वनान्युपवनानि च।।
।। इति श्रीमन्महाभारते सभापर्वण
अर्घाहरणपर्वणि सप्तपञ्चाशोऽध्यायः।। 57।।