सभापर्व

अध्यायः १३

Sabha Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

वैशम्पायन उवाच।।

ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत।।

राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च।।

हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः।।

युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे।।

स राजसूयं राजेन्द्र कुरूणामृषभस्तदा।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत्।।

भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्।
किं हितं सर्वलोकानां भवेदिति मनो दधे।।

अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः।।

सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम्।।

एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः।
न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता।।

परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः।।

`बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः'।
धीमतः सहदेवस्य धर्माणामनुशासनात्।।

वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा।।

निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा।
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ।।

विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्।।

सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्।।

राजवल्लभतश्चैव नाश्रूयत मृषाकृतम्।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्।।

अभिहर्तुं नृपाः षट्‌सु पृथक्‌जात्यैश्च नैगमैः।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे।।

कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट्।।

यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ।।

स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः।
bराजसूयं प्रति तदा पुनः पुनरपृच्छत।।

ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्।।

येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति।।

तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव।।

तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः।।

दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्।
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते।।

समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि।।

अविचार्य महाराज राजसूये मनः कुरु।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्।।

स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा।।

श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्।
`स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे।।

वैशम्पायन उवाच।।

चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम्।
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे।।

स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम्।
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः।।

भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् '।
पुनः पुनर्मनो दध्रे राजसूयाय भारत।।

स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः।।

धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्।
`विराटद्रुपदाभ्यां च सात्यकेन च धीमता।।

युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता।
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः।।

युधिष्ठिर उवाच'।।

भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः।
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत्।।

वैशम्पायन उवाच।

एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्।।

अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा।।

मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्।
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान्।।

भूयो विममृशे पार्थो लोकानां हितकाम्यया।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ।।

विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति।
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात्।।

भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्।।

सर्वलोकात्परं मत्वा जगाम मनसा हरिम्।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु।।

पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्।।

न स किञ्चिन्न विषहेदिति कृष्णममन्यत।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ।।

गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्।।

द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्।
` स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्।।

दूत उवाच।।

धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह।
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः।।

त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः।।

वैशम्पायन उवाच।।

इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली'।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः।।

`आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः'।
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः।।

इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः।
स गृहे पितृवद्धात्रा धर्मराजेन पूजितः।।

भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा।।

अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम्।।

युधिष्ठिर उवाच।।

प्रार्थितो राजसूयो मे न चासौ केवलेप्सया।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः।।

यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति।।

तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्।।

केचिद्धि सौहृदा देवे न दोषं परिचक्षते।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत।।

प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने।।

त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि।।

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि त्रयोदशोऽध्यायः।। 13।।