सभापर्व

अध्यायः १२

Sabha Parva (Sanskrit) · Adhyaya 12
अक्षर का आकार

युधिष्ठिर उवाच।।

प्रायशो राजलोकस्ते कथितो वदतां वर।
वैवस्वतसभायां तु यथा वदसि मे प्रभो।।

वरुणस्य सभायां तु नागास्ते कथिता विभो।
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा।।

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा।
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः।।

पितामहसभायां तु कथितास्ते महर्षभः।
सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह।।

शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने।
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः।।

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने।
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः।।

किं कर्म तेनाचरितं तपो वा नियतव्रत।
येनासौ सह शक्रेण स्पर्धदे सुमहायशाः।।

पितृलोकगतश्चैव त्वया विप्र पिता मम।
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः।।

किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत।
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे।।

नारद उवाच।

यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो।
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः।।

` इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः।
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः।।

तस्य सत्यवती नाम पत्नी केकयवंशजा।
तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन।।

सा च काले महाभागा राजन्मासं प्रविश्य च।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्।
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः'।।

स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम्।
तस्य सर्वे महीपालाः शासनावनताः स्थिताः।।

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्।
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर।।

स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम्।
आजहार महाराज राजसूयं महाक्रतुम्।।

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया।
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्।।

`समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान्।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः।।

राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे'।।

प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः।
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्।।

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा।
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्।।

भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः।
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्।
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ।

एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते।
तेभ्यो राजसहस्रेभ्यस्तद्विद्वि भरतर्षभ।।

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप।।

ये चान्ये च महीपाला राजसूयं महाक्रतुम्।
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ।

ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः।
ते तत्सदनम् ताद्य मोन्दते भरतर्षभ।।

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्।
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः।।

पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन।
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः।।

विज्ञाय मानुषं लोकमायान्तं मां नराधिप।
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्।।

समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे।
राजसूयं क्रतुश्रेष्ठमहारस्वेति भारत।।

त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै।
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि।।

एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्।
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम्।।

तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव।
गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम्।।

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्।
छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः।।

युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्।
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम्।।

एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर।
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे।।

भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्।
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि।
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति।।

वैशम्पायन उवाच।

एवमाख्याय पार्थेभ्यो नारदो जनमेजय।
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः।।

गते तु नारदे पार्थो भ्रातृभिः सह कौरवः।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः।।

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि द्वादशोऽध्यायः।। 12।।