सभापर्व

अध्यायः १४

Sabha Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

कृष्ण उवाच।।

सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत।।

जामदग्न्येन रामेण क्षत्रं यदवशेषितम्।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्।।

कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ।।

ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि।।

ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः।
तानि चैकशतं विद्धि कुलानि भरतर्षभ।।

ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्।।

तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते।
इदानीमेव वै राजञ्जरासन्धो महीपतिः।।

अभिभूय श्रियं तेषां कुलानामभिषेचितः।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः।।

सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्।।

स साम्राज्यं महाराज प्राप्तो भवति योगतः।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः।।

राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्।
तमेव च महाराज शिष्यवत्समुपस्थितः।।

वक्रः करूषाधिपतिर्मायायोधी महाबलः।।
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ।।

जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ।
वक्रदन्तः करूषस्य करभो मेघवाहनः।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः।।

मरुं च नरकं चैव शास्ति यो यवनाधिपः।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा।।

भगदत्तो महाराज वृद्धस्तव पितुः सखा।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः।।

स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः।।

मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः।।

जरासन्धं गतस्त्वेव पुरा यो न मया हतः।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः।।

आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्।।

वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः।
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः।।

चतुर्थभाङ्महाराज भोज इन्द्रसखो बली।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्।।

भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत्।
स भक्तो मागधं राजा भीष्मकः परवीरहा।।

प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः।।

न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः।
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः।।

उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः।।

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह।।

शाल्वायनाश्च राजानः सोदर्यानुचरैः सह।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः।।

तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः।।

तथैव सर्वपञ्चाला जरासन्धभायर्दिताः।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम्।।

`अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः।
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात्।।

उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्'।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः।।

अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः।।

श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना।।

ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा।।

सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्।
हतौ कंससुनामानौ मया रामेण चाप्युत।।

`हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः।
मया रामेण चान्यत्र ज्ञातयः परिपालितः'।।

भये तु समतिक्रान्ते जरासन्धे समुद्यते।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः।।

अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्।।

तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ।
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ।।

तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः।।

न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर।।

`अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः।
दत्ता न च हतो राजञ्जरासन्धो महाबलः'।।

अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे।।

हतो हंस इति प्रोक्तस्य केनापि भारत।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ।।

विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे।
इत्येतां मतिमास्थाय डिबिको निधनं गतः।।

तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत।।

तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ।
पुरं शून्येन मनसा प्रययौ भरतर्षभ।।

ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे।
पुनरान्दिनः सर्वे मधुरायां वसामहे।।

यदा त्वभ्येत्य पितरं सा वै राजीवलोचना।
कंसभार्या जरासन्धं दुहिता मागधं नृपम्।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता।।

पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्।।

संस्मरन्तो विमनसो व्यपयाता नराधिप।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम्।।

पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः।।

कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप।।

तथैव दुर्गसंस्कारं देवैरपि दुरासदम्।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः।।

तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च।।

माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः।।

सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि।।

योजनान्ते शतद्वारं वीरविक्रमतोरणम्।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः।।

अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः।।

चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च।।

एवमेते रथाः सप्त राजन्नन्यान्निबोध मे।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः।।

कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः।
`प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ।।

निशठश्च गदश्चैव सप्त चैते महारथाः।
विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः।।

वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः।
प्रसेनजिच्च यमलो राजराजगुणान्वितः।।

स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश।।

वज्रसंहनना वीरी वीर्यवन्तो महाबलाः।
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः।।

पाण्डवैश्चापि सततं नाथवन्तो वयं नृप।
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते।।

क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत।
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम्।।

कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम्।
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च।।

एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम्।
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः।।

एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा।
योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः'।।

न तु शक्यं जरासन्धे जीवमाने महाबल
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम।।

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः।।

स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः।
`अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः'।
महादेवं महात्मानमुमापतिमरिन्दम।।

आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम।।

स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्।।

वयं चैव महाराज जरासन्धभयात्तदा।
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम्।।

यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि।
यतस्व तेषां मोक्षाय जरासन्धवधाय च।।

समारम्भो न शक्योऽयमन्यथा कुरुनन्दन।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर।।

इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः।।

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि चतुर्दशोऽध्यायः।। 14।।