मौसलपर्व

अध्यायः ८

Mausala Parva (Sanskrit) · Adhyaya 8
अक्षर का आकार

वैशम्पायन उवाच।

एवमुक्तः स बीभत्सुर्मातुलेनि परंतप।
दुर्मना दीनवदनो वसुदेवमुवाच ह।।

नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो।।

राजा च भीमसेनश्च सहदेवश्च पाण्डवः।
नकुलो याज्ञसेनी च षडेकमनसो वयम्।।

राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर।।

सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम।।

इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम्।।

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः।।

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे।।

तान्दीनमनसः सर्वान्विमूढान्गतचेतसः।
उवाचेदं वचः काले पार्थो दीनतरस्तथा।।

शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम्।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति।।

सज्जीकुरुत यानानि रत्नानि विविधानि च।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति।।

सप्तमे दिवसे चैव रवौ विमल उद्गते।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम्।।

इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः।।

तां रात्रिमवसत्पार्थः केशवस्य निवेशने।
महता शोकमोहेन सहसाऽभिपरिप्लुतः।।

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां।।

ततः शब्दो महानासीद्वसुदेवनिवेशने।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्।।

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः।

तं देवकी च भद्रा च रोहिणी मदिरा तथा।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः।।

ततः शौरिं नृयुक्तेन बहुमूल्येन भारत।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा।।

तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः।
द्वारकावासिनः सर्वे पौरजानपदा हिताः।।

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः।।

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः।।
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः।।

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः।
तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे।।

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः।।

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि।।

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः।
सामगानां च निर्घोषो नराणां रुदतामपि।।

ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः।

अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ।।

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह।।

यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः।।

`ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च।
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः।।'

ततः शरीरे रामस्य वासुदेवस्य चोभयोः।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः।।

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः।।

अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः।।

अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम्।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये।।

वीरहीना वृद्धबालाः पौरजानपदास्तथा।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्।।

कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः।।

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः।।

दश षट् च सहस्राणि वासुदेवावरोधनम्।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः।।

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः।।

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्।
उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः।।

निर्याते तु जने तस्मिन्सागरो मकरालयः।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा।।

यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत।
तत्तत्संप्लावयामास सलिलेन स सागरः।।

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्।।

काननेषु च रम्येषु पर्वतेषु नदीषु च।
निवसन्नानयामास वृष्णिदारान्धनंजयः।।

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः।।

ततो लोभः समभवद्दस्यूनां निहतेश्वराः।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत।।

ततस्ते पापकर्माणो लोभोपहतचेतसः।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः।।

अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम्।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः।।

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः।।

महता सिंहनादेन त्रासयन्तः पृथग्जनम्।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः।।

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव।।

निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया।।

तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः।।

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्।
कआरोपयितुमारेभे यत्नादिव कथञ्चन।।

चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि।।

वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत्।।

वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम्।।

कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे।।

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः।।

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः।।

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः।।

स शरक्षयमासाद्य दुःखशोकसमाहतः।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः।।

[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय।।]

धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत्।।

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात्।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च।।

बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन्।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन्।।

ततः शेषं समादाय कलत्रस्य महामतिः।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्।।

युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान्।
न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः।।

हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते।
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत्।
भोजराजकलत्रं च हृतशेषं नरोत्तमः।।

तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत्।।

यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम्।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्।।

इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः।।

रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि।
देवी जींबवती चैव विविशुर्जातवेदसम्।।

सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः।।

द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः।।

स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि अष्टमोऽध्यायः।। 8 ।।