मौसलपर्व
अध्यायः ९
वैशम्पायन उवाच।
प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः।
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम्।।
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्।
अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः।।
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः।।
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः।
निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्।।
नखकेशदशाकुंभवारिणा किं समुक्षितः।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया।।
युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे।
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ।
श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि।।
अर्जुन उवाच।
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः।।
`तदनुस्मृत्य संमोहं तदा शोकं महामते।
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते।।
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम्।
संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः।।'
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः।।
एते शूरा महात्मानः सिंहदर्पा महाबलाः।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि।।
गदापरिघशक्तीनां सहाः परिघबाहवः।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम्।।
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्।
निधनं समनुप्राप्तं समासाद्येतरेतरम्।।
पुनःपुनर्न मृष्यामि विनाशममितौजसाम्।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः।।
शोषणं सागरस्येव मन्दरस्येव चालनम्।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च।।
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः।।
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः।।
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः।
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः।।
धनुरादाय तत्राहं नाशकं तस्य पूरणे।
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत्।।
अस्त्राणि मे प्रनष्टानि विविधानि महामुने।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः।।
पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः।
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः।।
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्।।
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम्।।
तमपश्यन्विषीदामि घूर्णामीव च सत्तम।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च।।
`देवकीनन्दनं देवं वासुदेवमजं प्रभुम्।'
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे।।
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः।।
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम।।
व्यास उवाच।
`देवांशा देवभूतेन सम्भूतास्ते गतास्सह।
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः'।।
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि।।
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम्।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्।।
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम्।
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम्।।
`स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै।
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम्।।'
रथस्य पुरतो याति यः स चक्रगदाधरः।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः।।
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः।
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम्।।
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ।
कृतं भीमसहायेन यमाभ्यां च महाभुज।।
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव।
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो।।
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये।।
कालमूलमिदं सर्वं जगद्बीजं धनंजय।
काल एव समादत्ते पुनरेव यदृच्छया।।
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः।।
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति।।
कालो गन्तुं गतिं मुख्यां भवतामपि भारत।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ।।
वैशम्पायन उवाच।
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम्।।
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम्।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति।।
।। इति श्रीमन्महाभारते
शतसाहस्रयां संहितायां वैयासिक्यां
मौसलपर्वणि नवमोध्यायः।। 9 ।।
।। मौसलपर्व समाप्तम् ।।
--------
अस्यानन्तरं महाप्रस्थानिकं पर्व भविष्यति
तस्यायमाद्यः श्लोकः।
जनमेजय उवाच।
0
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते।। 1 ।।
इदं मौसलपर्व कुंभघोणस्थेन
टी.आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च
मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्।
शकाब्दाः 1832 सन 1910.