मौसलपर्व
अध्यायः ७
वैशम्पायन उवाच।
तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम्।।
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत।।
तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन्।।
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः।
रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि।।
वसुदेव उवाच।
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः।।
यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः।।
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ।।
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय।।
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्।।
केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम्।।
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान्।।
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः।।
त्वं हि तं नारदश्चैव मुनयश्च सनातनम्।
गोविन्दमनघं देवमभिजानीध्वमच्युतम्।।
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः।।
गान्धार्या वचनं यत्तदृषीणां च परंतप।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः।।
प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप।
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव।।
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम्।।
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ।
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्।।
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा।।
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत।।
स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम्।।
इमां च नगरीं सद्यः प्रतियाते धनंजये।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति।।
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः।
कालं काङ्क्षे सद्य एव रामेण सहितो वने।।
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः।।
सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः।।
न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु।।
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन।।
।। इति श्रीमन्महाभारते
मौसलपर्वणि सप्तमोऽध्यायः।। 7 ।।