मौसलपर्व

अध्यायः ४

Mausala Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

वैशंपायन उवाच।

काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति।।

अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः।।

अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः।।

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम्।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा।।

युक्तं रथं दिव्यमादित्यवर्णं
हयाऽहरन्पश्यतो दारुकस्य।
ते सागरस्योपरिष्टादगच्छ-
न्मनोजवाश्चतुरो वाजिमुख्याः।।

तालः सुपर्णश्च महाध्वजौ तौ
सुपूजितौ रामजनार्धनाभ्याम्।
उच्चैर्जह्रुरप्सरसश्च दिव्या
देवा ऊचुर्गम्यतां तीर्थयात्राः।।

`भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः।
दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः।।'

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः।।

ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च।
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः।।

ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः।।

ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम्।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा।।

निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित्।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः।।

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः।।

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः।
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी।।

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम्।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम्।।

ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम्।
अवर्तत महापानं प्रभासे तिग्मतेजसाम्।।

कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च।।

ततः परिषदो मध्ये युयुधानो मदोत्कटः।
अब्रवीत्कृतवर्माणमवहास्यावमत्य च।।

कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम्।।

इत्युक्ते युयुधानेन पूजयामास तद्वचः।
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व।।

ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत्।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना।।

भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया।
वधेन सुनृशंसेन कथं वीरेण पातितः।।

इति तस्य वचः श्रुत्वा केशवः परवीरहा।
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स मन्युमान्।।

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम्।।

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्।।

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्।

पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः।
एष गच्छामि पदवीं सत्येन च तथा शपे।।

सौप्तिके ये च निहताः सुप्ता येन दुरात्मना।
द्रोणपुत्रसहायेन पापेन कृतवर्मणा।।

समाप्तमायुरस्याद्य यशश्चैव सुमध्यते।
इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः।।

तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा।।

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः।
भोजान्धका महाराज शैनेयं पर्यवारयन्।।

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम्।।

ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा।।

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः।
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम्।।

स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह।
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ।
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः।।

हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः।
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः।।

तदभून्मुसलं घोरं वज्रकल्पमयोमयम्।
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन्।।

ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः।।

यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो।।

तृणं च मुसलीभूतमपि तत्र व्यदृश्यत।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव।।

आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्।।

अवधीत्पितरं पुत्रः पिता पुत्रं च भारत।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम्।।

पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः।
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित्।।

तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम्।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः।।

सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत।।

गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगंदाधरः।।

तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः।
दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत्।।

भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि चतुर्थोऽध्यायः ।।