मौसलपर्व

अध्यायः ३

Mausala Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

वैशंपाय उवाच।

एवं प्रयतमानानां वृष्णीनामन्धकैः सह।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः।।

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित्।।

तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा।।

उत्पेदिरे महावाता दारुणाश्च दिनेदिने।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः।।

विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि।।

चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि।।

अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा।
अजाः शिवानां विरुतमन्वकुर्वत भारत।।

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा।।

व्यजायन्त खरा गोषु करभाश्वतरीषु च।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च।।

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च।।

गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा।।

विभावसुः प्रज्वलितो वामं विपरिवर्तते।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्।।

उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः।।

महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः।।

पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन।।

परस्परं च नक्षत्रं हन्यमानं पुनःपुनः।।
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन।।

नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः।।

एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम्।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम्।।

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः।।

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः।।

पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा।
यदनुव्याजहारार्ता तदिदं समुपागमत्।।

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान्।।

इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत्।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः।।

अघोषयन्त पुरुषास्तत्र केशवशासनात्।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि तृतीयोऽध्यायः ।।