मौसलपर्व

अध्यायः ५

Mausala Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

वैशम्पायन उवाच।

ततो ययुर्दारुकः केशवश्च
बभ्रुश्च रामस्य पदं पतन्तः।
अथापश्यन्राममनन्तवीर्यं
वृक्षाश्रितं चिन्तयानं विविक्ते।

ततः समासाद्य महानुभावः
कृष्णस्तदा दारुकमन्वशासत्।
गत्वा कुरून्सर्वमिमं महान्तं
पार्थाय शंसस्व वधं यदूनाम्।।

ततोऽर्जुनः क्षिप्रमिहोपयातु
श्रुत्वा मृतान्यादवान्ब्रह्मशापात्।
इत्येवमुक्तः स ययौ रथेन
कुरूंस्तदा दारुको नष्टचेताः।।

ततो गते दारुके केशवोथ
दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्।
स्त्रियो भवान्रक्षितुं यातु शीघ्रं
नैता हिंस्युर्दस्यवो वित्तलोभात्।।

कूटे युक्तं मुसलं लुब्धकस्य।।

ततो दृष्ट्वा निहतं बभ्रुमाह
कृष्णेऽग्रजं भ्रातरमुग्रतेजाः।
हहैव त्वं मां प्रतीक्षस्व राम
यावत्स्त्रियो ज्ञातिवशाः करोमि।।

ततः पुरीं द्वारवतीं पविश्य
जनार्दनः पितरं प्राह वाक्यम्।
सर्वं भवान्रक्षतु नः समग्रं
धनंजयस्यागमनं प्रतीक्षन्।।

रामो वनान्ते प्रतिपालयन्मा-
मास्तेऽद्याहं तेन समानमिष्ये।
दृष्टं मयेदं निधनं यदूनां
राज्ञां च पूर्वं कुरुपुङ्गवानाम्।।

नाहं विना यदुभिर्यादवानां
पुरीमिमामशकं द्रष्टुमद्य।
तपश्चरिष्यामि निबोध तन्मे
रामेणि सार्धं वनमभ्युपेत्य।।

इतीदमुक्त्वा शिरसा च पादौ
संस्पृश्य कृष्णस्त्वरितो जगाम।
ततो महान्निनदः प्रादुरासी-
त्सस्त्रीकुमारस्य पुरस्य तस्य।।

अथाब्रवीत्केशवः सन्निवर्त्य
शब्दं श्रुत्वा योषितां क्रोशतीनाम्।
पुरीमिमामेष्यति सव्यसाची
स वो दुःखान्मोचयिता नराग्र्यः।।

ततो गत्वा केशवस्तं ददर्श
रामं वने स्थितमेकं विविक्ते।।

रक्ताननः स्वां तनुं तां विमुच्य।।

संदृश्यन्तं सागरान्तं विशन्तं
सम्यक्तदा सागरः प्रत्यगृह्णात्।
नागा दिव्याः सरितश्चैव पुण्याः
कर्कोटको वासुकिस्तक्षकश्च।।

पृथुश्रवा अरुणः कुञ्जरश्च
मिश्री शङ्खः कुमुदः पुण्डरीकः।
तथा नागो धृतराष्ट्रो महात्मा
ह्रादः क्राथः शितिपृष्ठो निकेतुः।।

सङ्कर्षणं भूधरं शुद्धबुद्धिम्।।

ततो गते भ्रातरि वासुदेवो
जानन्सर्वा गतयो दिव्यदृष्टिः।
वने शून्ये विचरंश्चिन्तयानो
भूमौ चाथ संविवेशाग्र्यतेजाः।।

सर्वं तेन प्राक्तदा वित्तमासी-
द्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात्।
दुर्वाससा पारसोच्छिष्टलिप्ते
यच्चाप्युक्तं तच्च सस्मार कृष्णः।।

`कुलस्त्रीणां संवृतानां गवां च
द्विजेन्द्राणां बलमादाय धर्मे।
योनिर्देवानां वरदो ब्रह्मदेवो
गोविन्दाख्यो वासुदेवोऽथ नित्यः।।

संचिन्तयन्नन्धकवृष्णिनाशं
कुरुक्षयं चैव महानुभावः।
मेने ततः संक्रमणस्य कालं
ततश्चकारेन्द्रियसन्निरोधम्।।

यथा च लोकत्रयपालनार्थं
दुर्वासवाक्यप्रतिपालनाय।
देवोपि सन्देहविमोक्षहेतो-
र्निमित्तमैच्छत्सकलार्थतत्त्ववित्।।

स सन्निरुद्धेन्द्रियवाङ्मनास्तु
शिश्ये महायोगमुपेत्य कृष्णः।
जरोथ तं देशमुपाजगाम
लुब्धस्तदानीं मृगलिप्सुरुग्रः।।

स केशवं योगयुक्तं शयानं
मृगासक्तो लुब्धकः सायकेन।
जरोऽविध्यत्पादतले त्वरावां-
स्तं चाभितस्तज्जिघृक्षुर्जगाम।।

अथापश्यत्पुरुषं योगयुक्तं
पीतांबरं लुब्धकोऽनेकबाहुम्।
मत्वाऽऽत्मानं त्वपराद्धं स तस्य
पादौ जरो जगृहे शङ्कितात्मा।।

आश्वासितः पुण्यफलेन भक्तया
तथाऽनुतापात्कर्मणो जन्मनश्च।
दृष्ट्वा तथा देवमनन्तवीर्यं
देवैस्स्वर्गं प्रातितस्त्यक्तदेहः।।

गणैर्मुनीनां पूजितस्यत्र कृष्णो
गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या।।

दिवं प्राप्तं वासवोऽथाश्विनौ च
रुद्रादित्या वसवश्चाथ विश्वे।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा
गन्धर्वमुख्याश्च सहाप्सरोभिः।।

ततो राजन्भगवानुग्रतेजा
नारायणः प्रभवश्चाव्ययश्च।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या
स्थानं प्राप स्वं महात्माऽप्रमेयम्।।

ततो देवैर्ऋषिभिश्चापि कृष्णः
समागतश्चारणैश्चैव राजन्।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः
सिद्धैः साध्यैश्चानतैः पूज्यमानः।।

तं वै देवाः प्रत्यनन्दन्त राज-
न्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम्।
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः
प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत्।।

`नमोनमस्ते भगवञ्शार्ङ्गधन्व-
न्धर्मस्थित्या प्रादुरासीर्धरायाम्।
कंसाख्यादीन्देवशत्रूंश्च सर्वा-
न्हत्वा भूमिः स्थापिता भारतप्ता।।

दिव्यं स्थानमजरं चाप्रमेयं
दुर्विज्ञेयं चागमैर्गम्यमग्र्यम्।
गच्छ प्रभो रक्ष चार्तिं प्रपन्ना-
न्कल्पेकल्पे जायमानांश्च मर्त्यान्।।

इत्येवमुक्त्वा देवसंघोऽनुगम्य
श्रिया युक्तं पुष्पवृष्ट्या ववर्ष।
वाणी चासीत्संश्रिता रूपिणी सा
भानोर्मध्ये प्रविश त्वं तु राजन्।।

भुजैश्चतुर्भिः समुपेतं ममेदं
रूपं विशिष्टं जीवितं संस्थितं च।
भूमौ गतं पूजयताप्रमेयं
सदा हि तस्मिन्निवसामीति देवाः।।

देवा निवृत्तास्तत्पदं नाप्नुवन्तो
बुद्ध्या देवं संस्मरन्तः प्रतीताः।
ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः
शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि पञ्चमोऽध्यायः।। 5 ।।