मौसलपर्व

अध्यायः २

Mausala Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

जनमेजय उवाच।

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः।।

वैशम्पायन उवाच।

षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः।।

जनमेजय उवाच।

केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे।।

वैशम्पायन उवाच।

विश्वामित्रं च कण्वं च नारदं च तपोधनम्।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्।।

ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः।।

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः।
ऋषयः साधु जानीत किमियं जनयिष्यति।।

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप।।

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति।।

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ।।

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति।।

इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः।।

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्।।

एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः।।

श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः।।

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन्।।

विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप।।

अघोषयंश्च नगरे वचनादाहुकस्य ते।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः।।

अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः।।

यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः।।

ततो राजभयात्सर्वे नियमं चक्रिरे तदा।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि द्वितीयोऽध्यायः।। 2 ।।