मौसलपर्व

अध्यायः १

Mausala Parva (Sanskrit) · Adhyaya 1
अक्षर का आकार

श्रीवेदव्यासाय नमः।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।

वैशम्पायन उवाच।

षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः।
ददर्श विपरीतानि निमित्तानि युधिष्टिरः।।

ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे।।

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि।।

आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि।।
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः।।

परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः।
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः।।

एते चान्ये च बहव उत्पाता भयसंसिनः।
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति।।

`यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि।
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ।।'

कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः।
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम्।।

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः।
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत।।

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्।
वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम्।।

निधनं वासुदेवस्य समुद्रस्येव शोषणम्।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः।।

मौसलं ते समाश्रित्य दुःखशोकसमन्विताः।
विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन्।।

।। इति श्रीमन्महाभारते
मौसलपर्वणि प्रथमोऽध्यायः।। 1 ।।