कर्णपर्व

अध्यायः ९२

Karna Parva (Sanskrit) · Adhyaya 92
अक्षर का आकार

सञ्जय उवाच।

प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम्।
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः।।

उभावतिरथौ शूरावुभौ दृढपराक्रमौ।
उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ।।

अहो बत महद्युद्धं कर्णार्जुनसमागमे।
भविष्यति महाघोरं वृत्रवासवयोरिव।।

प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत्।
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः।।

कर्णार्जुनविवादेन मा नश्येदखिलं जगत्।
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः।।

एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते।
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम्।।

द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ।
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम्।।

ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत्।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः।।

मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः।
विभर्ति च महातेजा धनुर्वेदमशेषतः।।

पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः।
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं।।

सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः।
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्।।

अतिक्रमे च लोकानामभावो नियतो भवेत्।
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित्।।

स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ।
नरनारायणावेतौ पुराणावृषिसत्तमौ।।

अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ।
[नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा।।

अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः।
सर्वदेवगणाश्चापि सर्वभूतानि यानि च।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत्।।]

कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः।।

वसूनां समलोकत्वं मरुतां वासमाप्नुयात्।
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम्।।

`क्लेशितो हि वने पार्थो दिर्घकालं पितामह।
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः।।

पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः।
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह।।

तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः।
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः।।

तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे।
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत्।।

ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम्।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः।।

मनस्वी जयतां शूरः कृतविद्यस्तपोधनः।
बिभर्ति च महातेजा धनुर्वेदमशेषतः।।

अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्।
अतिक्रमे च लोकानामभावो नियतो भवेत्।।

न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित्।
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ।।

कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः।
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः।।

तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्।।

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्।
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः।।

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष।
विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा।
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः।।

व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः।
नानारूपाणि विबुधा देवतूर्याण्यवादयन्।।

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः।
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे द्विनवतितमोऽध्यायः।। 92 ।।