कर्णपर्व
अध्यायः ९३
सञ्जय उवाच।
रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ।
समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम्।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत।।
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा।
अन्योन्यस्पांधेनोरुग्रं शक्रशम्बरयोरिव।।
तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ।
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये।।
कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा।
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते।।
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः।
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा।।
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः।।
उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा।।
सा किङ्किणीकाभरणा कालपाशोपमा तदा।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम्।।
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा।।
हया हयानभ्यहेषन्स्पर्धमानाः परस्परम्।
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः।
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत।।
तत्राजयद्वासुदेवः शल्यं नयनसायकैः।
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः।।
अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्।।
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्।
किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम्।।
शल्य उवाच।
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः।
उभावेकरयेनाहं हन्यां माधवपाण्डवौ।।
सञ्जय उवाच।
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत।
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः।।
पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा।
शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय।।
यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत्।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे।।
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्।।
मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन।
सपताकध्वजं कर्णं सशल्यरथवाजिनम्।।
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्।
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा।।
अद्यैव सरथं साश्वं सशक्तिकवचायुधम्।
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना।।
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव।।
द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्।।
कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना।
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः।।
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया।
वारणेनेव मत्तेन पुष्पितं गजतीरुहम्।।
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते।।
अद्याभिमन्युजननीं प्रहृष्टः सांत्वयिष्यसि।
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन।।
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे त्रिनवतितमोऽध्यायः।। 93 ।।