कर्णपर्व
अध्यायः ९१
सञ्जय उवाच।
वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः।
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत्।।
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम्।
युद्धायामर्पताम्राक्षः समाहूय धनञ्जयम्।।
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ।
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ।।
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ।
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि।
`रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे'।।
तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष।
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव।।
रथज्यातलनिर्हादैर्बाणशङ्खरवैस्तथा।
तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि।।
ध्वजावालोक्य वीराणां विस्मयः समपद्यत।
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः।।
तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः।
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्।।
श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः।
चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत्।।
आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः।
राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः।।
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम्।
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्।।
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्।
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे।।
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ।
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ।।
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ।
तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ।।
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव।
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ।।
चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ।
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ।।
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ।
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ।
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ।।
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव।
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ।।
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ।
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ।।
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ।
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः।।
यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा।
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि।।
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ।
बभूव परमो हर्षस्तावकानां विशाम्पते।।
संशयः सर्वभूतानां विजये समपद्यत।
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ।।
उभौ वरायुधधरावुभौ रणकृतश्रमौ।
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्।।
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च।
उभौ च सदृशौ युद्धे शम्बरामरराजयोः।।
कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ।
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि।।
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ।
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ।।
ततो दृष्ट्वा महाराज राजमानौ महारथौ।
सिद्धचारणसङ्घानां विस्मयः समपद्यत।।
धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ।
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम्।।
तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः।
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः।।
नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः।
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम्।।
रिरक्षिषन्तः शथ्रुघ्नाः पत्त्यश्वरथकुञ्जराः।
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च।।
तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः।
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे।।
तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते।
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा।।
तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि।
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ।।
ताभ्यां द्यतं समासक्तं विजयायेतराय वा।
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि।।
तौ तु स्थितौ महाराज समरे युद्धशालिनौ।
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ।।
तावुमौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो।
भीमरूपधरावास्तां महाधूमाविव ग्रहौ।।
ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ।
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे।।
व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे।।
द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते।
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी।।
सागराश्चैव गिरयः सरितश्च नरोत्तम।
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम्।।
असुरा यातुधानाश्च गुह्यकाश्च परन्तप।
कर्णः समभवद्यत्र खेचराणि वयांसि च।।
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः।
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम्।।
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः।
महीवियज्जलचराः काद्रवेयाश्च सान्वयाः।
विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन्।।
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः।
एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः।।
ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः।
मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च।
पार्थस्य विजये राजन्सर्व एव समाश्रिताः।।
वसवो मरुतः साध्या रुद्रा देवाश्विनावपि।
अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश।
कर्णतः समपद्यन्त श्वसृगालवयांसि च।।
वसवश्च महेन्द्रेण मरुतश्च सहाग्निना।
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन्।।
देवताः पितृभिः सार्धमृषिभिश्च परन्तप।
तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ।
यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः।।
देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये
प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः।।
सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः।
किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः।।
अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः।
विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम्।।
ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम्।
प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते।
ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम्।।
ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ।
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम।।
ईदृशार्नि नरव्याघ् तस्मिन्सङ्ग्रामसागरे।
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे।।
ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम्।।
ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः।
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ।।
विमानानि विचित्राणि गुणवन्ति च सर्वशः।
समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः।
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः।।
एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत।
आशंसमानेषु जयं राधेयस्यार्जुनस्य च।
विमानायुतसम्बाधमाकाशमभवत्तदा।।
ईहामृगव्यालमृगैर्दिपाश्वरथपङ्क्तिभिः।
ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः।
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम्।।
देवदानवगन्धर्वा नागयक्षपतत्रिणः।
महर्षयो देवगणाः पितरश्च स्वधाभुजः।।
तपोविद्यौषधीसिदधा नानारूपाम्बरत्विषः।
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे।।
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च।
आस्थितो यानमाकाशे दिव्यं तेजः समागताः।।
ततः प्रजापतिस्तूर्णमाजगाम महामते।
द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा।।
विजित्य कर्णः स्विदिमां वसुन्धरा--
मथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम्।
इतीश्वरस्यापि बभूव संशयः
प्रजापतेः प्रेक्ष्य तयोर्महद्बलम्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकनवतितमोऽध्यायः।। 91 ।।