कर्णपर्व
अध्यायः ९०
सञ्जय उवाच।
स सूतजस्य प्रमुखे स्थितस्तदा।।
तमापतन्तं नरवीरमुग्रं
महाहवे बाणसहस्रधारिणम्।
अभ्यापतत्कर्णसुतो महारथं
यथा महेन्द्रं नमुचिः पुरा तथा।।
तौ तत्र शूरौ रथकुञ्जरौ रणे
परस्परस्याभिमुखौ महारथौ।
ससर्जतुः शरसङ्घाननेका--
न्सम्भ्रान्तरूपौ सुभृशं तदानीम्।।
ततो द्रुतं चैकशरेण पार्थं
शितेन विद्ध्वा युधि कर्णपुत्रः।
ननाद नादं सुमहानुभावो
विद्ध्वेव शक्रं नमुचिः स वीरः।।
पुनः स पार्थं वृषसेन उग्रै--
र्बाणैरविद्ध्यद्भुजमूले तु सव्ये।
तथैव कृष्णं नवभिः समार्दय--
त्पुनश्च पार्थं दशभिर्जघान।।
पूर्वं यथा वृषसेनप्रयुक्तै--
रभ्याहतः श्वेतहयः शरैस्तैः।
संरम्भमीषद्गमितो वधाय
कर्णात्मजस्याथ मनः प्रदध्रे।।
उवाच कर्णं भृशमुत्स्मयंस्तदा।।
दुर्योधनं द्रौणिमुखांश्च सर्वा--
नहं रणे वृषसेनं तमुग्रम्।
सम्पश्यतः कर्ण तवाद्य सङ्ख्ये
नयामि लोकं निशितैः पृषत्कैः।।
ऊनं च तावद्धि जना वदन्ति
सर्वैर्भवद्भिर्मम सूनुर्हतोऽसौ।
एको रथो मद्विहीनस्तरस्वी
अहं हनिष्ये भवतां समक्षम्।।
संरक्ष्यतां रथसंस्थाः सुतोऽय--
महं हनिष्ये भवतां समक्षम्।।
पश्चाद्वधिष्ये त्वामपि सम्प्रमूढ--
महं हनिष्येऽर्जुन आजिमध्ये।।
यस्यानयादेष महान्क्षयोऽभवत्।।
स एवमुक्त्वा विनिमृज्य चापं
लक्ष्यं हि कृत्वा वृषसेनमाजौ।
ससर्ज बाणान्विशिखान्महात्मा
वधाय राजन्कर्णसुतस्य सङ्ख्ये।।
विव्याध चैनं दशभिः पृषत्कै--
र्मर्मस्वशङ्कं प्रहसन्किरीटी।
चिच्छेद चास्येष्वसनं भुजौ च
क्षुरैश्चतुर्भिर्निशितैः शिरश्च।।
स पार्थबाणाभिहतः पपात
रथाद्विबाहुर्विशिरा धरायाम्।
सुपुष्पितो वज्रहतोऽतिमात्रो
भग्नो यथा साल इवावकृत्तः।।
सञ्जय उवाच।
दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम्।।
एते दीर्यन्ति सगणाः पाञ्चालानां महारथाः।
दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने।।
सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम्।
न हि कर्णशरानन्यः सोढुमुत्सहते नरः।।
सदेवासुरगन्धर्वांस्त्रीँल्लोकान्सचराचरान्।
त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम।।
भीममुग्रं महात्मानं त्र्यक्षं शर्वं कपर्दिनम्।
न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम्।।
त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः।
युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव।।
तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः।
जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा।।
श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि।।
अर्जुन उवाच।
ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः।
सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन।।
चोदयाश्वान्हृषीकेश रथं मम महारथ।
नाहत्वा समरे कर्णं निवर्तिष्यति फल्गुनः।।
अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम्।
मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः।।
उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम्।
यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति।।
एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम्।
प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा।।
पुनरप्याह तेजस्वी पार्थः कृष्णमरिन्दम।
चोदयाश्वान्हृषीकेश कालोऽयमतिवर्तते।।
एवमुक्तस्तदा तेन पाण्डवेन महात्मना।
जयेन सम्पूज्य स पाण्डवं तदा
प्रचोदयामास हयान्मनोजवान्।।
स पाण्डुपुत्रस्य रथो मनोजवः
क्षणेन कर्णस्य रथाग्रगोऽभवत्।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
नवतितमोऽध्यायः*।। 90 ।।