कर्णपर्व

अध्यायः ८९

Karna Parva (Sanskrit) · Adhyaya 89
अक्षर का आकार

सञ्जय उवाच।

सुकल्पिता हैमवता महोत्कटा
रणाभिकामैः कृतिभिः समास्थिताः।
सुवर्णजालैर्वितता बभुर्गजा--
स्तथा यथा खे जलदाः सविद्युतः।।

कुणिन्दपुत्रो दशभिर्महायसैः
कृपं ससूताश्वमपीडयद्भृशम्।
ततः शरद्वत्सुतसायकैर्हतः
सहैव नागेन पपात भूतले।।

कुणिन्दपुत्रावरजस्तु तोमरै--
र्दिवाकरांशुप्रतिमैरयस्मयैः।
जघान भोजस्य हयानथापतन्
क्षणाद्विशस्ताः कृतवर्मणे हयाः।।

अथापरे द्रौणिहता महाद्विपा--
स्त्रयः ससर्वायुधयोधकेतनाः।
निपेतुरुर्व्यां व्यसवो विचेतना--
स्तथा यथा वज्रहता महाचलाः।।

कुणिन्दराजावरजादनन्तरः
स्तनान्तरे पत्रिवरैरताडयत्।
तवात्मजं तस्य तवात्मजः शरैः
शितैः शरीरं व्यहनद्द्विपं च तम्।।

स नागराजः सह राजसूनुना
पपात रक्तं बहु सर्वतः क्षरन्।
महेन्द्रवज्रप्रहतोऽम्बुदागमे
यथा जलं गेरिकपर्वतस्तथा।।

कुणिन्दपुत्रप्रहितोऽपरो द्विपः
क्राथं ससूताश्वरथं व्यपोथयत्।
ततोऽपतत्क्राथसराभिघातितः
सहेश्वरो वज्रहतो यथा गिरिः।।

रथी द्विपस्थेन हतोऽपतच्छरैः
क्राथाधिपः पर्वतजेन दुर्जयः।
सवाजिसूतेष्वसनध्वजस्तथा
यथा महावातहतो महाद्रुमः।।

वृको द्विपस्थं गिरिराजवासिनं
भृशं शरैर्द्वादशभिः पराभिनत्।
ततो वृकं साश्वरथं महाद्विपो
द्रुतं चतुर्भिरणैर्व्यपोथयत्।।

स पोथितो नागरवेण वीर्यवा--
न्पराभिनद्द्वादशभिः शिलीमुखैः।
वृकेण बाणाभिहतोऽपतत्क्षितौ
सवारणो बभ्रुसुतेन सार्धम्।।

कुणिन्दराजस्य सुतोऽपरस्तदा
स चापि शूरः सहसा समर्पितः।
पपात बाणैः सुबलस्य सूनुना
विषाणपुच्छापरगात्रपातिना।।

गजेन वाहाञ्शकुनेः कुणिन्दजो
निनाय वैवस्वतमन्दिरं रणे।
रथं च संक्षुभ्य ननाद नर्दत--
स्ततोऽस्य गान्धारपतिः शिरोऽहरत्।।

ततः कुणिन्देषु गतेषु तेषु
प्रहृष्टरूपास्तव ते महारथाः।
भृशं प्रदरध्मुर्लवणाम्बुसम्भवा--
न्वरांश्च बाणासनपाणयोऽभ्ययुः।।

तथाऽभवद्युद्धमतीव दारुणं
पुनः कुरूणां सह पाण्डुसृञ्जयैः।
शरासिशक्त्यृष्टिगदापरश्वथै--
र्नराश्वनागासुहरं भृशाकुलम्।।

रथाश्वमातङ्गपदातयस्ततः
परस्परं विप्रहताः क्षितौ पतन्।
यथा सविद्युत्तटितो जलप्रदाः
समुत्थितैर्दिग्भ्य इवोग्रमारुतेः।।

ततः शतानीकहता महागजा
हया रथाः पत्तिगणाश्च तावकाः।
सुपर्णवातप्रहता यथोरगा--
स्तथा गता गां विवशा विचूर्णिताः।।

ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः
स विन्दपुत्रो नकुलात्मजं स्मयन्।
ततोऽस्य कोपाद्विचकर्त नाकुलिः
शिरः क्षुरेणाम्बुजसन्निभाननम्।।

ततः शतानीकमविध्यदायसै--
स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः।
त्रिभिश्च भीमं नकुलं च सप्तभि--
र्जनार्दनं द्वादशभिश्च सायकैः।।

तदस्य कर्मातिमनुष्यकर्मणः
समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्।
पराक्रमज्ञास्तु धनञ्जयस्य ये
हुतोऽयमग्नाविति ते तु मेनिरे।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
एकोननवतितमोऽध्यायः।। 89 ।।