कर्णपर्व
अध्यायः ९
सञ्जय उवाच।
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे।
बृहत्यौ सम्प्रजहाते देवासुरचमूसमे।।
ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः।
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान्।।
पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्।।
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः।
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम्।।
व्यायतायतबाहूनां व्यायतायतबाहुभिः।
वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः।।
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव।।
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा।।
गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे।।
रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः।
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले।।
रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः।
अश्वारोहैः पदाताश्च निहता युधि शेरते।।
रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः।
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः।।
रथाश्वेभनराणां तु नराश्वेभरथैः कृतम्।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्।।
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः।।
वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह।।
वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः।।
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः।
नानाविरागवसाना गन्धचूर्णावचूर्णिताः।।
बद्धासयः पाशहस्ता वारणप्रतिवारणाः।
समानमृत्यवो राजन्नात्यजन्त परस्परम्।।
कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः।
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः।।
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः।
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः।।
तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः।
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च।।
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः।।
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ।
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम्।।
तस्यायसं वर्मवरं वररत्नविभूषितम्।
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा।।
स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः।
शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून्।।
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित।
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे।।
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः।
यदृच्छया द्रुतवतोर्महापर्वतयोरिव।।
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः।।
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम्।।
क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः।।
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ।
वातोद्वूतपताकाभ्यां युयुधाते महाबलौ।।
तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः।।
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन्।।
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः।
क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान्।।
ततो भास्करवर्णाभमञ्चोगतिमयस्मायम्।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्।।
ततः करूशाधिपतिश्चापमानम्य सायकैः।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम्।।
अथ कार्मुकमादाय भीमो जलदनिः स्वनम्।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः।।
स शरौघार्दितो नागो भीमसेनेन संयुगे।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः।।
तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट्।
महावातेरितं मेघं वातोद्धूत इवाम्बुदः।।
सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान्।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम्।।
ततः साधुविसृष्टेन क्षुरेणानतपर्वणा।
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत्।।
ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत्।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु।।
स पपात महानागो भीमसेनस्य भारत।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्।।
भीमसेनोऽपि तन्नागं गदया समपोथयत्।
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः।।
`उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम्'।
उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः।।
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम्।
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा।।
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम्।
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे नवमोऽध्यायः।। 9 ।।