कर्णपर्व

अध्यायः ८

Karna Parva (Sanskrit) · Adhyaya 8
अक्षर का आकार

धृतराष्ट्र उवाच।

सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः।।

हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व स़ञ्जय।।

सञ्जय उवाच।

कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ।
योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम्।।

महत्यपररात्रे च तव सैन्यस्य मारिष।
योगो योग इति ह्याशु प्रादुरासीन्महास्वनः।।

कल्पतां नागमुख्यानां रथानां च वरुथिनाम्।
सन्नह्यतां नराणां च वाजिनां च विशाम्पते।।

क्रोशतां चैव योधानां त्वरितानां परस्परम्‌।
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः।।

ततः श्वेतपताकेन बलाकावर्णवाजिना।
हेमपृष्ठेन धनुषा नागकक्षेण केतुना।।

तूणीरशतपूर्णेन सगदेन वरूथिना।
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा।।

कार्मुकैरुपपन्नेन विमलादित्यवर्चसा।
रथेनाभिपताकेन सुतपुत्रो ह्यदृश्यत।।

ध्मापयन्वारिजं राजन्हेमजालविभूषिन्तम्।
विध्रुन्वानो महच्चापं कार्तस्वरविभूषितम्।।

दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्।
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम्।।

न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः।।

ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष।
कर्णो निष्कर्षयामास कौरवाणां महद्बलम्।।

व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः।
प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया।।

मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः।।

द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः।
मध्येदुर्योधनो राजा बलेन महता वृतः।।

वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः।।

पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः।
त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः।।

अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः।
महत्या सेनया सार्धं मद्रदेशसमुत्थया।।

दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः।
वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः।।

पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा।
चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ।।

तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे।
धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम्।।

पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे।
कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः।।

हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम।।

एको ह्यत्र महेष्वासः सूतपुत्रो विराजते।
सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः।
चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः।।

तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन।
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः।।

एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि।।

सञ्जय उवाच।

भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्।।

वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः।
दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः।।

मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः।
नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः।।

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ।
पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना।।

शेषां नृपतयो वीराः स्थिता व्यूहस्य दंशिताः।
यथाभागं यथोत्साहं यथायत्नं च भारत।।

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः।।

दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे।
निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः।।

तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः।।

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः।।

सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः।
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम्।।

हयहेषितशब्दाश्च वारणानां च बृंहिताः।
रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप।।

न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम्।।

उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले।
योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा।।

विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते।
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ।।

नृत्यन्त्याविव ते सेने समेयातां परस्परम्।
तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्वलिप्सवः।।

ततः प्रववृते युद्धं नरवारणवाजिनाम्।
रथानां च महाराज अन्योन्यमभिनिघ्नताम्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धारम्भे अष्टमोऽध्यायः।। 8 ।।