कर्णपर्व
अध्यायः १०
सञ्चय उवाच।
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्।
जघान समरे शूरः सन्नतपर्वभिः।।
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्।
कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः।।
कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम्।
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः।।
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः।
नेदुः सेदुश्च मम्लुश्च बभ्रुमुश्च दिशो दश।।
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष।
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे।।
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्।
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्।।
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः।
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम्।।
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्।
संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम्।।
धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये।
शिखण्डी कृतवर्माणं समासादयदच्युतम्।।
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव।
दुःशासनं महाराज सहदेवः प्रतापवान्।।
कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता।
सात्यकिः केकयौ चापि च्छादयामास भारत।।
तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम्।
विषाणाभ्यां यथा नागौ प्रतिनागं महावने।।
शरसम्बिन्नवर्माणौ तावुभौ भ्रातरौ रणे।
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः।।
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशः।
छादयञ्छरवर्षेण वारयामास भारत।।
वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः।
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः।।
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः।
अथ तौ सायकैस्तीक्ष्णैर्वारयामास सात्यकिः।।
अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान्।
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च।।
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः।
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः।।
बाणान्धकारमभवत्तयो राजन्महामृधे।
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः।।
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः।
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे।।
क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत्।
अपतत्तच्छिरो राजन्कुण्डलोपचितं महत्।।
शम्बरस्य शिरो यद्वन्निहतस्य महारणे।
शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम्।।
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः।
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत्।।
स षष्ट्या सात्यकिं विद्व्वा स्वर्णपुङ्खैः शिलाशितैः।
ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत्।।
सात्यकिं च ततस्तूर्णं केकयानां महारथः।
शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत्।।
स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः।
रराज समरे राजन्सपुष्प इव किंशुकः।।
सात्यकिः समरे विद्वः कैकेयेन महात्मना।
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव।।
तावन्योन्यस्य समरे सञ्छिद्य धनुषी शुभे।
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ।।
विरथावसियुद्धाय समाजग्मतुराहवे।
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा।।
विरोचेतां महारङ्गे निस्त्रिंशबरधारिणौ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ।।
मण्डलानि ततस्तौ तु विचन्तौ महारणे।
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे।।
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम्।
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः।।
सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः।
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्।
चचार मण्डलान्येव गतप्रत्यागतानि च।।
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्।
अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः।।
सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे।
निपपात महेष्वासो वज्राहत इवात्वलः।।
तं निहत्य रणे शूरः शैनेयो रथसत्तमः।
युधामन्युरथं तूर्णमारुरोह परन्तपः।।
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः।
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः।।
सा वध्यमाना समरे केकयानां महाचमूः।
तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे दशमोऽध्यायः।। 10 ।।