कर्णपर्व
अध्यायः ८८
सञ्जय उवाच।
स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत।
इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः।।
एष ते रुधिरं तीव्रं पिबामि पुरुषादवत्।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति।।
ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति।।
प्रमाणकोट्यां शयने कालकूटकभोजनम्।
दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत्।।
द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या।
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु।।
दुःखान्येवाभिजानीमो न सुखानि कदाचन।
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा।।
इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः।
पुनरेव महाराज तव सैन्यमभिद्रवत्।।
रक्तार्द्रपाणिस्तु ततो महात्मा
गदापाणिः काल इवान्तकाले।
विभीषयंस्तव पुत्रस्य सैन्य--
मितस्ततो धावति वाहिनीं ते।।
ततः क्षणाद्भारत शून्यमासी--
दायोधनं घोरतरं कुरूणाम्।
यत्राजिमध्ये प्रापिबद्भीमसेनो
दुःशासनस्य रुधिरं क्रोधदीप्तः।।
स हत्वा समरे राजन्राजपुत्रं महाबलम्।
पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः।।
रुधिरार्द्रो महाराज व्यशोभत परन्तपः।
सपुष्पः किंशुक इव रक्तरक्ततरो बभौ।।
रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत्।
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि।।
दुःशासने यादृशं संश्रुतं न--
स्तदवाप्तं पाण्डवैः सर्वमेव।
अत्रैवमाप्स्याम्यपरं द्वितीयं
दुर्योधनं यज्ञपशुं विशस्य।।
शिरो मृदित्वाऽस्य पुनश्च शान्तिं
यास्याम्यहं कौरवाणां समक्षम्।
या साऽपतिः सा सपतिर्हि जाता
यास्ताः सपत्योऽपतयस्तु जाताः।।
पश्यन्तु चित्रं विविधं हि लोके
ये वै तिलाः षण्डतिला बभूवुः।
ते चेत्संसिद्धा निधनं गताः परे
किं चित्ररूपं बत जीवलोके।।
एतावदुक्त्वा वचनं प्रहृष्टः
प्राक्रोशदुच्चै रुधिरार्द्रवक्रः।
ननर्त चैवातिबलो महात्मा
वृत्रं निहत्येव सहस्रनेत्रः।।
दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं
कालं यथा त्वन्तकाले प्रजानाम्।
महद्भयं चाधिरथिं विवेश
जये निराशाश्च सुतास्त्वदीयाः।।
दुःशासने तु निहते पुत्रास्तव महारथाः।
महत्क्रोधविषं वीरा धारयन्तो महाबलाः।
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः।।
निषङ्गी कवची खङ्गी दण्डधारो धनुर्धरः।
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ।।
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः।
भीमसेनं महाबाहुं पीडयामासुरञ्जसा।।
स वध्यमानो विशिखैः समन्तात्तैर्महारथैः।
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ।।
ततः परिवृतो राजन्नवभिः शत्रुतापनैः।
दुःशासनादवरजैः पुत्रैस्तव वृकोदरः।।
तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत।
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्।।
हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे।
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम्।।
ततः कर्णं महाराज प्रविवेश महद्भयम्।
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव।।
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः।
उवाच वचनं कर्णं प्राप्तकालं हितं तदा।।
एते द्रवन्ति राजानो भीमसेनभयार्दिताः।
दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः।।
दुःशासनस्य रुधिरे पीयमाने महात्मना।
व्यापन्नचेताः सहसा शोकोपहतचेतनः।।
उपासते त्वामेते हि परिवार्य महारथाः।
कृपप्रभृतयः कर्ण हतशेषाः सहोदराः।।
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः।
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः।।
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः।
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम्।।
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः।
तमुद्वह महाबाहो यथाशक्ति यथाबलम्।।
जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये।
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव।
त्वयि मोहं समापन्ने पाण्डवानभिधावति।।
सञ्जय उवाच।
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततोजसः।
हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम्।।
ततः क्रुद्धो वृषसेनोऽभ्यधाव--
द्भीमं समायान्तममित्रसाहम्।
बाणैः किरन्तं प्रतियाति चोग्रं
व्यात्ताननं कालमिवापतन्तम्।।
तमभ्यधावन्नकुलः प्रवीर--
मारादमित्रं प्रतुदन्पृषत्कैः।
कर्णस्य पुत्रं समरे प्रहृष्टं
जिष्णुर्जिघांसुर्मघवेव जम्भम्।।
ततो ध्वजं स्फाटिकहेमचित्रं
चिच्छेद धैर्यान्नकुलः क्षुरेण।
कर्णात्मजस्येष्वसनं च चित्रं
भल्लेन जाम्बूनदचित्रनद्धम्।।
अथान्यदादाय धनुः स शीघ्रं
कर्णात्मजः पाण्डवमभ्यविध्यत्।
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं
कर्णस्य पुत्रो नकुलं कृतास्त्रम्।।
ततः क्रुद्धो नकुलः कर्णपुत्रं
शरैर्महोल्काभिरिवाभ्यपीडयत्।
स कर्णपुत्रो नकुलस्य राज--
न्सर्वानस्त्रान्वारयदुत्तमास्त्रैः।।
आसीत्सुघोरं भरतप्रवीर
युद्धं तदा कर्णजपाण्डवाभ्याम्।।
वनायुजान्सुकुमारान्सुशुभ्रा--
नलङ्कृताञ्जातरूपेण चित्रान्।
जघान चाश्वान्नकुलस्य वीरो
रणाजिरे सूतपुत्रस्य पुत्रः।।
ततो हताश्वादवरुह्य याना--
च्चर्माऽऽददे रुचिरं बर्हिचित्रम्।
आकाशसङ्काशमसिं प्रगृह्य
प्रकाशमानः खगवच्चचार।।
ततोऽस्य पक्षाननयद्यमाय
द्विसाहस्रान्नकुलः क्षिप्रकारी।
ते प्रापतन्नसिना वै विशस्ता
यथाऽश्वमेधे पशवः शमित्रा।।
ततस्ततो विजिता युद्धशौण्डा
नानादेश्याः सुहृदः सत्यसन्धाः।
एकेन शीघ्रं नकुलेन नुन्नाः
सारेप्सुनेवोत्तमचन्दनस्य।।
भूमौ चरन्तं नकुलं रथौघाः
समन्ततः सायकैः प्रत्यगृह्णन्।
स तुद्यमानो नकुलो विहङ्गै--
श्चचार सङ्ख्ये द्विषतो विनिघ्नन्।।
तं कर्णपुत्रोऽपि चरन्तमाजौ
नराश्वमातङ्गरथप्रवीरान्।
निघ्नन्तमष्टादशभिः पृषत्कै--
र्विव्याध वीरः स चुकोप विद्धः।।
ततोऽभ्यधावत्समरे जिघांसुः
कर्णात्मजं पाण्डुसुतो नृवीरम्।
तस्येषुभिर्वधमत्सूतपुत्रो
महारणे वर्म सहस्रभारम्।।
तस्याथ कांस्यं सुशितं सुपीत--
मसिप्रवीरं गुरुभारासाहम्।
द्विषच्छरीरापहरं सुघोर--
माधून्वतः सर्पमिवात्तकोशम्।।
क्षिप्रं शरैः षङ्भिरमित्रसाह--
श्चकर्त खङ्गं निशितैः सुधारैः।
पुनश्च पार्थं निशितैः पृषत्कैः
स्तनान्तरे क्षिप्रमिवात्यविध्यत्।।
स भीमसेनस्य रथं च गत्वा
ववर्ष वै शरवर्षं सुघोरम्।।
नकुलमथ विदित्वा छिन्नबाणासनासिं
विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम्।
पवनचलपताका ह्लादिनो वल्गिताश्वाः
परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः।।
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा
द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः।
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्
भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः।।
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः
कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च।
शकुनिशुकवृकाश्च क्राथदेवावृधौ च
द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च।।
अथ तव रथवर्यास्तान्दशैकप्रवीरा--
निषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन्।
नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रु--
र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
अष्टाशीतितमोऽध्यायः।। 88 ।।