कर्णपर्व

अध्यायः ८५

Karna Parva (Sanskrit) · Adhyaya 85
अक्षर का आकार

सञ्जय उवाच।

तमायान्तं महावेगैरश्वैः कपिवरध्वजम्।
युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः।।

कृत्वा संशप्तका घोरं शपथं पारलौकिकम्।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्।।

कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान्।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति।।

प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम्।
बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः।।

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्।
जघान नवतिं वीरानर्जुनो निशितैः शरैः।।

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना।
विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा।।

ततः सरथनागाश्वाः कुरवः कुरुसत्तमम्।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्।।

तदायस्तमनुष्याश्वमुदीर्णवरवारणम्।
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम्।।

शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्।।

तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः।।

ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः।
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात्।।

कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः।
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्।।

तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः।।

अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः।
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत्।।

ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः।
हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः।।

ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्।।

कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश।।

रथा हीना नहाराज रथिभिर्वाजिभिस्तथा।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः।।

अश्वारोहा महाराज धावमाना इतस्ततः।
तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः।।

तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि।।

असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति।
नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः।।

ततस्त्र्येङ्गेण महता बलेन भरतर्षभ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्।।

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्।
जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति।।

ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्।
दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति।।

हतावशिष्टांस्तुरगानर्जुनेन महाबलः।
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे।।

`गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः।
मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्'।।

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्।।

गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत्।
सा जघान बहूनश्वानश्वारोहांश्च मारिष।।

कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः।
पोथयामास गदया सशब्दं तेऽपतन्हताः।।

दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः।
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः।।

असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा।
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा।।

सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः।
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः।।

गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः।
मेनिरे समनुप्राप्तं कालदण्‍डोद्यतं यमम्।।

स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः।
प्रविवेश गजानीकं मकरः सागरं यथा।।

विगाह्य च गजानीकं प्रगृह्य महतीं गदाम्।
क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम्।।

गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः।
पततः समपश्याम सपक्षान्पर्वतानिव।।

हत्वा तु तद्गजानीकं भीमसेनो महाबलः।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात्।।

ततः पराङ्मुखीभूतं निरुत्साहं बलं तव।
तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम्।।

विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम्।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः।।

नराश्वरथमातङ्गा युधि गाण्डीवधन्वना।
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः।।

ततः कुरुणामभवदार्तनादो महान्नृप।
नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः।।

हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम्।
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम्।।

ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम्।
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः।।

आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम्।
आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते।।

तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः।
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम्।।

तत्राद्भुतमपश्याम कौरवाणां पराक्रमम्।
वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ।।

तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते।।

अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना।।

ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्।।

तान्विद्रावयते पार्थः किरञ्शरशतान्बहून्।
हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम्।।

पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा।।

कुरवो हि महाराज निर्विषाः पन्नगा इव।
कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः।।

यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष।
उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम्।।

तथा कर्णं महेष्वासं पुत्रास्तव नराधिप।
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः।।

ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्।
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः।।

सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया।।

तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः।
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन्।।

विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः।।

ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः।
शरौघैश्छादयामासुर्महामेघा इवाचलम्।।

ततः शरसहस्राणि कर्णमुक्तानि मारिष।
पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः।।

महदासीत्तदा युद्धं पाञ्चालानां महामते।
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
पञ्चाशीतितमोऽध्यायः।। 85 ।।