कर्णपर्व

अध्यायः ८४

Karna Parva (Sanskrit) · Adhyaya 84
अक्षर का आकार

सञ्जय उवाच।

xxxxxxxxxxxप्रबरैर्वलैर्भीममभिद्रुतम्।
xxxxxxxxxx कौन्तेयमुस्थिहीर्षुर्धनञ्जयः।।

xxxxxxxxx सेनां मारत सायकैः।
xxxxxxxxxx परवीरान्धनञ्जयः।।

xxxxxxxxxxx शरजालानि भागशः।
अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम्।।

स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः।
धनञ्जयो महाबाहुः कुरूणामन्तकोऽमयत्

ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि।
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह।।

छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः।
पातितैश्च पतद्भिश्च योधैरासीत्समावृता।।

धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः।
सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता।
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा।।

सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा।
रणभूमिरभूद्राजन्महावैतरणी यथा।।

ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम्।
ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही।।

सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः।
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः।।

क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः।
चतुः शता रथवरा हताः पेतुः किरीटिना।।

पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः।
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः।।

समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः।
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान्।।

हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः।
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः।
उपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै।।

विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम्
सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः।।

ततः प्रादीर्यत चमूर्धनञ्जयशराहता।
महावातसमाविद्धा महानौरिव सागरे।।

नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः।
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्।।

महागिरौ वेणुवनं निशि प्रज्वलितं यथा।
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम्।।

तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना।
हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः।।

सश्वापदा मृगगणा दावाग्नित्रासिता यथा।
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना।।

उत्सृज्य च महाबाहुं भीमसेनं तथा रणे।
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम्।।

ततः कुरुषु भग्नेषु बीभत्सुरपराजितः।
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत।।

समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः।
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्।।

भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः।
नादन्रथघोषेण पृथिवीं द्यां च भारत।।

ततः परिवृतो वीरैर्दशभिः शत्रुतापनः।
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः।।

ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्।
आततेष्वसना वीरा नृत्यन्त इव भारत।।

अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः।
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना।।

तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम्।।

तेषां नानदतां केतूनश्वांश्चापानि सारथीन्।
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत।।

*अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत्।
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले।।

तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव।।

तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्।
रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
चतुरशीतितमोऽध्यायः।। 84 ।।